________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मात्रारत्तम् ।
दशत्वसंख्या निश्चीयते । ततः पंचमकोष्ठस्थपंचमांकन पंचाक्षरवृत्तस्य एकगुरुचतुर्लघुयुक्तं भेदपंचकमिति निर्धारितैकत्वचतुष्पसंख्याकगुरुलघुयुक्तपंचाक्षरभेदनिष्ठपंचत्वसंख्या निश्चीयते। ततः षष्ठकोष्ठस्थेकांकेन पंचाक्षरवृत्तस्य पंचलघुयुक्त एको भेद इति निर्धारितपंचत्वसंख्याकलघुयुक्तभेदनिष्ठेकत्वसंख्या निश्चीयते। कोष्ठषट्वनिष्ठसवींकयोजननिःपनद्वात्रिंशत्तमांकेन च द्वात्रिंशद्रपा समस्ता पंचाहरवृत्तभेदसंख्या प्रतीयते। एवमग्रेऽपि सुधौभिः स्वयमूह्यं, ग्रन्थविस्तरभयान लिख्यते ॥ (F). .
४३ । अथ कियंतः सर्वगुर्वकगुरु-द्विगुरु-त्रिगुर्वादयः, एवं कियंतः सर्वलचेकलघु-दिलघ्वादय इति ज्ञानार्थं मेरुमाह, अक्सर। अक्षरसंख्यथा कोष्ठान् कुरु, प्राधमत्यं च प्रथमांकन पूरय । शौर्षद्वयांकनापरं भर, जानौत सूचौमेरुं निःशंकम् ॥ श्राद्यं कोष्ठमिति शेषः, तथाच सर्वत्र श्राद्यांत्यकोष्ठयोरेक एव लेख्यः, शौर्षकोष्ठदयरूपांकेन रिक्तकोष्ठं पूरयेत्यर्थः। तथाच एकाक्षरादौ इष्टमेरुसंख्यया यादिकोष्ठानर्द्धान्तरितानेकैकवृद्ध्या लिखेत् । तत्र सर्वकोष्ठाद्यंतयोरेकं दत्त्वा पश्चादुपरितनं कोष्ठदयांकं टंखलावंधन्यायेनेकौकत्यावशिष्टाः कोष्ठाः पूरणीयाः ॥ तत्र एकाक्षरप्रस्तारे एकः सर्वगुरुः, एकः सर्वलघुरिति भेदद्वयमेव सिद्धं, तस्थ विभेदत्वात् ॥ यक्षरप्रस्तारे एकः सर्वगुरुः, द्वौ एकगुरू, एकः सर्वलघुरिति ॥ एवं व्यक्षरप्रस्तारे एकः सर्वगुरुः, त्रय एकगुरवः, त्रयो द्विगुरवः, एकः सर्वलघुरिति ॥ एवं सर्वत्र प्रस्तारे एकः सर्वलघुः, त्रय एकलघवः, त्रयो दिलघवः, एकः सर्वगुरुरित्यादि सर्वत्र
For Private and Personal Use Only