________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६०
प्राकृतपैङ्गलम्।
संभवति, लघुद्दययुक्तकादशगुरुदानेन, यथेच्छ गुरुलघुदानेन वा । एवं च पूर्व लक्षणद्वयं कतमिति बोध्यं, तथाहि पढमेति पूर्वार्द्धनकं, एग्गाराहा हारा इत्युत्तरार्द्धन च द्वितीयं । तच यदि यथाकथंचिचतुर्विंशतिर्मात्रा अंतरा अंतरा गुरुयुक्ताः क्रियते, तदा रोलावृत्तं भवतीति प्रथमलक्षणार्थः । यदि च लघुदययुक्तकादागुरुभिसतविंशतिर्मात्राः क्रियते, तदापि रोलावृत्तं भवतौति दितीयलक्षणार्थः। तत्र पत्रभ इत्युदाहरणं प्रथमलक्षणाभिप्रायेण, भेदानयनप्रकारश्च द्वितीयलक्षणाभिप्रायेण प्रदर्शितमित्यवधेयम् ।
एवं च यचैकादश गुरवः अंते च द्वौ लघू, एवं त्रयोदशाघराणि चतुर्विंगनिर्मात्राश्च प्रतिचरणं पतंति सः कुंदः, यत्र दश गुरवः एवं चतुर्दशाक्षराणि चतुर्विंशतिर्मात्राश्च प्रतिचरणं पतंति सः करतलम्, एवं पूर्वभेदापेक्षया उत्तरत्र भेदे एकगुरुन्यनक्रियया लघुदयमेकमक्षरं च वर्द्धते तदा ते ते भेदा ज्ञेयाः, ते लिखित्वा प्रदयते । [ There is a blank space here]. यदा पूर्वोक्किमेकमेव लक्षणं, तत्र च कथमंतरांतरा गुरुयोगः कर्त्तव्यहत्यपेक्षायामाह एग्गाराहा हारेति, तथा च दिलघुयुक्तकादशगुरुषु एकैकगुरुहासेन लघुदयवृद्ध्या अंतरांतरा गुरुयोगश्च कर्तव्य इति भावः । न चैवं मत्युदाहरणासंगतिरिति वाच्यमव्यवहितपूर्वोक्ने रसिकानामके वृत्ते वाचापि भेदकरणात् । [Vide श्लोक ., p. 153.- Ed.] तथाहि यत्र चरणचतुष्टयपिंडौमृताश्चतुश्चत्वारिंशहुरवः अष्टौ लघवः, यत्र च त्रयश्चत्वारिंशगुरवो [दश लघवः, यत्र च द्विचत्वारिंशगुरवो] द्वादश लघवः, यत्र च एकचत्वारिंगगुरवश्चतुर्दश
For Private and Personal Use Only