________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
rostorante
(पारमा०) तीर्थकरेण च सहिता ६७ सप्तषष्टिः, एवं भवन्ति प्रकृतयः । सम्प्रति सप्तषष्टेबन्धोपयोगित्वं प्रतिपिपादयिषुर्बन्धप्रायोग्याः शेषकर्मप्रकृतीरपि प्रसङ्गत आह-सम्यग्मिश्राभ्यां विना त्रिपञ्चाशच्छेषकर्मणाम् । तथाहि-ज्ञाना-15 वरणपञ्चकदर्शनावरणनवकसंहतौ चतुर्दश वेदनीयद्विकसंकलने षोडश । सम्यक्त्वमिश्रे बन्धे नायात इति तद्वर्जितमोहनीयषड्विंशतिक्षेपे द्विचत्वारिंशत् । आयुषश्चतुष्टयमीलने षट्चत्वारिंशत् । गोत्रद्वयसंहतावष्टचत्वारिंशत् । अन्तरायपञ्चक-* युक्तौ यथोक्का त्रिपश्चाशत् । इति सप्तषष्टिप्रतिपादकगाथाचतुष्टयस्यार्थः ॥७९॥
एतन्मीलने यद्भवति तदाहएवं विसुत्तरसयं, 'बंधे पयडीण होइनायत्वं । बंधणसंघायावि य, सरीरगहणेण इह गहिया ॥८॥
व्याख्या-एवं' उक्तनीत्या 'विंशत्युत्तरं शतं' विंशतिरुत्तरा यस्मिन् तविंशत्युत्तरं तच्च तत् शतं च विंशत्युत्तरशतं बन्धनरूपाः प्रकृतयो बन्धनप्रकृतयः तासां भवति ज्ञातव्यम् । एकस्य जीवस्य सामान्ये नैकदा यद्युत्कृष्टो बन्धो भवति तदा विंशत्युत्तरशतिको भवति नाधिको बन्धः। ननु सप्तषष्टिभेदमध्ये बन्धनसंघातभेदी नोक्तो तत्कथं तयोग्रहणम्, इत्याह-बन्धनसंघातावपि च शरीरग्रहणेन 'इह' पक्षान्तरगृहीती, तदन्तर्गतत्वात्तयोः। इति गाथार्थः॥८॥ उक्ता ससषष्टिः, इदानीं त्रिनवतिमाह(पारमा० ) एवं सप्तषष्टेस्त्रिपञ्चाशतश्च मीलने विंशत्युत्तरं शतं प्रकृतीनां बन्धे ज्ञातव्यं भवति । ननु सक्षषष्टिभेदमध्ये
१ व्याख्याकारेण तु-''बंधणपयडीण" इति पाठानुसारेण व्याख्यातम् ॥
For Private And Personal Use Only