________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
टीकाद्वयोपेतः॥
कर्मवि- निबन्धनसंघातौ नोक्तौ तत्कथं तयोर्ग्रहणम् ?, इत्याह-बन्धनसंघातावपि शरीरग्रहणेनेह सप्तषष्टिपक्षे गृहीतौ । औदा- पाक: रिकशरीरनामग्रहणेन औदारिकबन्धनसंघातनाम्नी, वैक्रियशरीरनामग्रहणेन वैक्रियवन्धनसंघातनाम्नी, इत्यादि ।
इति गाथार्थः॥८॥ ॥३६॥
उक्तं प्रसङ्गागतं बन्धोपयोगि विंशत्युत्तरं प्रकृतिशतं, सम्प्रति त्रिनवतिमाहबंधणभेया पंच उ, संघायावि य हवंति पंचेव । पण वण्णा दो गंधा,पंच रसा अट्ट फासाय ॥८१॥
व्याख्या-बन्धनं पूर्वोक्तं तस्य भेदा विशेषाः पञ्च, 'तु' पुनः, संपाताअपि च भवन्ति' जायन्ते पञ्चैवोक्तलक्षणाः । पञ्च वर्णाः प्रतीताः। दो गन्धौ सुगन्धदुर्गन्धौ । पञ्च रसा व्याख्यातार्थाः । अष्टौ स्पर्शा वक्ष्यमाणाः । इति गाथार्थः॥८१॥
सर्वसंख्याप्रक्षेपार्थमाह(पारमा०) औदारिकादिभेदाइन्धनभेदाः पञ्च । संघाता अपि पञ्चैव भवन्ति, औदारिकादिभेदादेवेत्येताभ्यां दश। पञ्च वर्णाः, कृष्णादिभेदात् । द्वौ गन्धौ सुरभिर्दुरभिश्च । पञ्च रसास्तिक्ताद्याः । अष्ट स्पर्शा गुर्वाद्याः। एवमेता विंशतिः प्रकृतयः। एतासां च मध्याच्चतुष्कं वर्णगन्धरसस्पर्शानां चतुर्णी सप्तपष्टिपक्षे सामान्यतो गृहीतानामत्र विशेषोपादानादपगतानां स्थानपूरणे गतमिति शेषाः षोडश ॥ ८१॥ दस सोलस छवीसा, एया मेलेहिँ सत्तसहीए। तेणउई होइ तओ, बंधणभेया उ पन्नरस ॥ ८॥
SURA**RK
॥३६
For Private And Personal Use Only