SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अगुरुलघुच बोडव्यम् , यस्य कर्मण उदयेन गुरु नापि लघु शरीरंजीवस्य तदगुरुलघुनाम 'वोडव्यं ज्ञातव्यम् १३॥उपहन्यते येन कर्मणा तदुपघातनाम, यदुदये जीवस्य खावयवेन परेण वाव्याघातो भवति १४। परानाहन्ति पराघातनाम, यस्य कर्मण उदये आत्मावयवैः परं हन्ति १५। आनुपूर्वी नरकादिका, यदुदये जीवो नरकादौ गच्छति, नरकादिनयने कारणं रज्जुववृषभस्य १६। उच्छसनमुण्टासस्तस्य नाम उछासनाम, यदुदयाज्जीवस्योच्छासनिःश्वासौ भवतस्तच ज्ञातव्यम् १७॥ इति गाथार्थः ॥७२॥ आतपनमातपस्तल्लक्षणं नामातपनाम,यथाऽदित्य आतपनामोदये तपति, एवमन्येऽपिप्राणिन आतपनामकौदये तपन्ति, तेनातपनामो च्यते १८। उद्योतनमुद्द्योतस्तदुपलक्षितं नाम उद्योतनाम, यथा खद्योतक उद्योतयति उद्योतनामोदये, एवमन्योऽपि प्राणी यस्य कर्मण उदये उद्योतयति तत्कर्म तस्योद्योतनामोच्यते १९। विहायसागम्यते यया प्राणिभिः साविहायोगतिः,यदुदये प्राणी आकाशगामी भवति तबिहायोगतिनाम २०॥न केवलमातपोयोते अवगन्तव्ये, विहायोगतिश्चावबोडव्या । बसस्थावराभिधानं च, त्रस्यत इति त्रसःत्रस इत्यभिधानमाहानं | यस्य नाम्नः कर्मणस्तत्रसाभिधानं, यदुदये जीवस्त्रसो भवति २१। स्थावर इत्यभिधानं नाम यस्य तत्स्थावराभिधानं, यदुदये जीवस्य स्थावरत्वं भवति २२॥बादरः स्थूलस्तल्लक्षणं नाम बादनाम, यदुदये जीवो बादरपरिणामपरिणतो भवति २३ । सूक्ष्मो लघुरणुमानो यस्य कर्मण उदये जीवः सूक्ष्मपरिणामपरिणतो भवति तत्सूक्ष्मनाम २४ । पर्यासं चापर्याप्तंच पर्याप्तापर्याप्त तल्लक्षणं नाम, यदुदये जीवःखपर्याप्तिभिःपर्याप्सः परिपूर्णो भवति AAAESTRACTERNAGACAS For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy