________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कमेविपाका
॥३२॥
BREACHESESEGESEX
नारकतिर्यनरामरलक्षणा गतिर्भवति जीवस्य तद्गतिनाम उच्यते । जायते जन्यते वा जातिरेकेन्द्रियादि-IN टीकालयो.
का, यदुदये एकेन्द्रियादिकत्वं भवति जीवस्य तदेकेन्द्रिय(यादिजाति) नाम भवति ज्ञातव्यम् २॥शीर्यत इति| है शरीरमौदारिकादि, यस्य कर्मण उदये औदारिकादिशरीरं संपद्यते देहिनां तच्छरीरनामावबोद्धव्यं ज्ञात
व्यमिति सर्वत्र क्रिया ३ । अङ्गानि शिरामभृतीनि, उपाङ्गान्यकुल्यादीनि, यस्य कर्मण उदये सर्वाण्येवाझोपाङ्गानि निष्पद्यन्ते तदङ्गोपाङ्गनाम च ज्ञातव्यम् ४। बध्यत इति बन्धनमौदारिकबन्धनादि, तन कर्मणा क्रियते तदौदारिक(कादि)बन्धनं नाम भवति ज्ञातव्यमिति क्रियाध्याहारः क्रियाऽभावे ५। संघात्यते येन तत्संघातननाम, यथा कचुके पृथग्भूतानि खण्डानि संघात्यन्ते सीवकेन, तथा शरीरेऽपि येन कर्मणा वाहकलाचीप्रभृतीनां संघातनसंयोगः क्रियते तत्संघातननाम ६। संहननं शरीरसामर्थ्यलक्षणम् , यदुदये जीवस्य वज्रर्षभनाराचादिर्भवति तत्संहनननाम ७ । संस्थीयते येन कर्मणाऽऽकारविशेषेण तत्संस्थाननाम, यस्य कर्मण उदये समचतुरस्रादिकं संस्थानं भवति जीवस्य, तच ज्ञातव्यम् ८ । इति गाथार्थः ॥७॥ तथाशब्दः समुच्चयार्थः । वर्णनं वर्णों वरणादा (१) वर्णः शुक्लादिः,यदुदये शुक्लपीतरक्तनीलकृष्णवर्णःप्राणी भवति तवर्णनाम ९। गन्ध्यत इति गन्धो दुर्गन्धादिः, यदुदये सुगन्धदुर्गन्धगन्धःप्राणी भवति तद्न्धनाम१०।रस्यत इति रसः, यस्य कर्मण उदये तिक्तकटुकषायाम्लमधुररससंयुक्तं शरीरं भवति प्राणिनां तद्रसनाम ११।। स्पृश्यत इति स्पर्शः, स चाष्टधा सुकुमारादिः, स यदुदयात्माणिनो भवति तत्स्पर्शनामावगन्तव्यमिति १२॥
॥३२॥
For Private And Personal Use Only