________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दान्तिकयोजनामाह(पारमा०) यथा चित्रकरो 'निपुणः' स्वकर्मणि प्रवीणः 'अनेकरूपाणि' नानाप्रकाराणि 'रूपाणि' हस्त्यश्वादीनि करोति 'शोभनाशोभनानि' रम्यारम्याणि 'चोक्षांचोक्षैः' विशदाविशदैः 'वर्णैः' हरितालादिभिः । इति गाथार्थः ॥ ६॥
दार्टान्तिके योजयतितह नामंपि य कम्म, अणेगरूवाई कुणइ जीवस्स । सोहणमसोहणाइं,इहाणिहाई लोयस्स ॥६८॥ | व्याख्या-तथा' तेनैव प्रकारेण नामापि कर्म 'अनेकरूपाणि नानारूपाणि ऋजुकुब्जवामनादिलक्षणानि करोति' निर्वर्तयति 'जीवस्य' आत्मनः, अनेकरूपाण्येवाह-शोभनानि सुरूपाणि, अशोभनानि विरूपाणि, किंभूतानि च तानि ? इत्याह-'इष्टानिष्टानि' अभिमतानभिमतानि 'लोकस्य' प्राणिसमूहस्य । सर्वत्रानुस्खारोऽलाक्षणिकः प्राकृतस्याद्रष्टव्यः। इति गाथार्थः॥१८॥
नानो निरुक्तेन शब्दं व्युत्पादयंस्तस्यैव भेदानाह(पारमा०) तथा नामकर्मापि जीवस्य 'अनेकानि' बहूनि रूपाणि 'शोभनाशोभनानि' शुभाशुभानि, अत एव लोकस्येष्टानिष्टानि करोति । अयमाशय:-शुभान्यपि बहुभेदानि अशुभान्यपि बहुभेदान्येव । एतेन सामान्यतः शुभाशुभभेदाविविधमपि नाम भवतीत्यवगन्तव्यम् । यदागमः-"नामं कम्मं दुविहं, मुहमसुहं च आहियं । सुहस्स उ बहू भेया,
१"नानाकाराणि" इत्यपि पाठः । २ "चुक्षाचुक्षैः" इत्यपि पाठः । ३ इतोऽर्वाग् “लोकस्य" इत्यधिकः पाठो दृश्यते ॥
OSASUSASTISSOSKUSOK
For Private And Personal Use Only