________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मविपाकः
टीकाद्वयो. पेतः॥
॥२७॥
भयमोहनीयमाहभयवज्जियम्मि जीवे, जस्सिह उदएण हुंति कम्मस्स।सत्तवि भयठाणाइं, भयमोहे सो विवागोउ ॥५॥
व्याख्या-'भयवर्जिते' भयरहिते 'जीवे प्राणिनि यस्य 'कर्मणः' मोहनीयविशेषस्योदयेन 'भवन्ति जायन्ते 'सप्तापि भयस्थानानि इहपरलोकादानाकस्मादाजीवमरणाश्लाघारूपाणि । तत्रेहलोकभयं मनुष्यो मनुष्याद्विभेति १। परलोकभयं मनुष्यो गवादेनरकादेर्वा बिभेति २ । आदानं ग्रहणं तस्माद्भयमादानभयम् ३ । अकस्माद्भयं राजादिर्धनादि ग्रहीष्यते, अकस्माद्भयमिदं धवलगृहादि ममोपरि निपतिष्यतीत्येवंरूपम् ४ । आजीविकाभयं दुष्कालादौ पतिते कथं वयं जीविष्यामः १५ । मरणभयं मरिष्यामो वयमित्येवं हृदयकम्परूपम् ६ । अश्लाघाभयं ममावर्णवादं लोकः करिष्यतीत्येवंरूपम् ७ । भयरूपं मोहं भयमोहं तस्य सः'तु' पुनः 'विपाक' अनुभवः तुरेवकारार्थों वा । इति गाथार्थः॥५८॥
शोकमोहनीयमाह(पारमा०) भयवर्जिते जीवे यस्य कर्मण इहोदयेन भवन्ति सप्तापि भयस्थानानि, भयमोहे. स पुनर्विपाकः । भयस्था४ नानि च इहलोकपरलोकादानाकस्मादाजीवमरणाश्लाघारूपाणि । तत्र मनुष्यस्य मनुष्यानयमितीहलोकभयम् १। मनुष्यस्य महिषादेनरकादेर्वा भयं परलोकभयम् २ । मम सकाशादयमिदमादास्यतीति भयमादानभयम् ३ । उपविष्टस्य सुप्तस्य वा मत्तमातङ्गादिनिमित्तमन्तरेण भयमकस्माद्भयम् ४ | धान्यहीनस्य दुष्कालपतनाद्याकणेनाद्भयमाजीविका
॥२७॥
For Private And Personal Use Only