________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
'यस्य' मोहनीयविशेषस्य 'उदद्येन' विपाकेन भवति 'रतिः' प्रीतिः, । ( 'रतिमोहे') रतिमोहनीयस्यैव कर्मणस्तं विपाकं 'विजानीहि ' अवबुध्यख । इति गाथार्थः ॥ ५६ ॥
अरतिमोहनीयमाह -
( पारमा० ) सच्चित्तेषु देहकलत्रादिषु, अचित्तेषु कनकादिषु चकारान्मिश्रेष्वलङ्कृतख्यादिषु, बाह्यशब्देनान्तरसम्यक्त्वादीनां व्युदासेन द्रव्येषु यस्य कर्मण उदयेन रतिर्भवति रतिमोहे । स 'तु' पुनर्विपाक इति विजानीहि । इति गाथार्थः ॥ ५६ ॥
अरतिमोहनीयमाह -
सच्चित्ताचित्तेसु य, बाहिरद्वेसु जस्स उदपणं । अरई होइ हु जीवे, सो उ विवागो अरइमोहे ॥ ५७ ॥
व्याख्या- 'सच्चित्ताचित्तेषु च' ख्यादिवेश्मादिष्वशोभनेषु च 'बाह्यद्रव्येषु' आत्मनः पृथग्भूतेषु 'यस्य' कर्मणः 'उदयेन' विपाकेन अरतिः 'भवति जायते रणरणकरूपा 'जीवे' जीवस्य स 'तु' पुनः 'विपाकः' अनुभवः 'अरतिमोहे' रणरणकरूपे, मोहस्यैव नान्यस्य । सर्वत्र षष्ठयर्थे सप्तमी प्राकृतत्वात् । इति गाथार्थः ॥ ५७ ॥
भयखरूपमाह -
( पारमा० ) 'सच्चित्ताचित्तेषु' उक्तस्वरूपेषु बाह्यद्रव्येषु यस्य कर्मण उदयेनारतिर्भवति जीवे, स 'तु' पुनर्विपाकोsरतिमोहे । इति गाथार्थः ॥ ५७ ॥
For Private And Personal Use Only