________________
Shri Mahavir Jain Aradhana Kendra
क० ५
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वेदो नपुंसकवेदश्च । तेषां स्वरूपमिदं वक्ष्यमाणं भवति । इति गाथार्थः ॥ ५० ॥ तत्र स्त्रीवेदमाह–
पुरिसं पइ अहिलासो, उदएणं होइ जस्स कंमस्स । सो फुंफुमदाहसमो, इत्थीवेयस्स उ विवागो ॥ ५१ ॥
व्याख्या - 'पुरुषं प्रति' पुरुषमङ्गीकृत्य 'अभिलाष:' इच्छाविशेषः, ययहं पुरुषं सेवयामीत्येवंरूपः, 'उदयेन' विपाकेन यस्य 'भवति' जायते 'कर्मण:' मोहनीयविशेषस्य, 'सः' अभिलाषः फुस्फुमाया दाहः फुम्फुमादाहः तेन समः- तेन तुल्यः कारीषदाहसदृशः, यथा यथा चाल्यते तथा तथा ज्वलति दहति च । एवम लापि यथा यथा संस्पृश्यते पुरुषेण तथा तथाऽस्या अधिकतरोऽभिलाषो जायते । अभुज्यमानायां तु छन्नकारीषदाहतुल्योऽभिलाषो मन्द इत्यर्थः । 'स्त्रीवेदस्य तु' योषिद्वेदस्यैवायं 'विपाकः' अनुभवः । इति गाथार्थः ॥ ५१ ॥ पुरुषवेदखरूपमाह -
( पारमा० ) पुरुषं प्रत्यभिलाषः स्त्रिया यस्य कर्मण उदयेन भवति, पित्तोदये मधुराभिलाषवत् स करीषाग्निदाहसमः स्त्रीवेदस्य विपाकः । इति गाथार्थः ॥ ५१ ॥
पुरुषवेदमाह
इत्थीए पुण उवरिं, जैस्सिह उदएण रागमुप्पज्जे । सो तणदाहसमाणो, होइ विवागो' पुरिसवे ॥५२॥
१ व्याख्याकारेण तु –“जस्सुद एणं तु" २ – “-०गो उ पुमवेए" इति पाठानुसारेण व्याख्यातम् ॥
For Private And Personal Use Only