SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कर्मविपाकः ॥ २४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तुल्यस्य यावत्सूक्ष्मः संपरायो लोभो यस्मिन् गुणस्थानके तत्सूक्ष्म संपरायं तस्मिन्, 'भवति' जायते 'विपाकः' उदयः, न परस्मिन्नुपशान्तमोहादौ । इति गाथार्थः ॥ ४९ ॥ साम्प्रतं नोकषायानाह ( पारमा० ) एषां संज्वलनानां 'त्रयाणां' क्रोधमानमायालक्षणानां विपाको मिथ्यात्वाद्यावद्वादरोऽनिवृत्तिबादर इति जानीहि न परतः, इत्यत्रापि संबध्यते । 'लोभस्य' चतुर्थसंज्वलनस्य यावत् 'सूक्ष्मः' सूक्ष्मसंपरायगुणस्थानं तावद्विपाको भवति, न परतः पुनः प्रशान्तमोहादिषु । इति गाथार्थः ॥ ४९ ॥ उक्ताः कषायाः । सम्प्रति नोकषायप्रतिपादनायाह नव नोकसाथ भणिमो, वेया तिन्नेव हासछक्कं च । इत्थी पुरिसनपुंसग, तेसि सरूवं इमं होइ ॥ ५०॥ व्याख्या-नव संख्यया नोकषायाः पूर्वोक्तखरूपाः तान्,'भणिमों' इति प्रतिपादयामः । वेदास्त्रय उक्तलक्षणाः, हास्यषङ्कं च । तत्र तावद् वेदाः स्त्रीपुंनपुंसकरूपाः, तेषां च स्वरूपं 'इम' वक्ष्यमाणलक्षणं 'भवति' विज्ञेयम् । इति गाथार्थः ॥ ५० ॥ 'यथोद्देशस्तथा निर्देश:' इति न्यायात् स्त्रीवेदं लक्षणपूर्वकं दृष्टान्तपुरस्सरमाह ( पारमा० ) कषायसहचरिता नोकषायाः, नोशब्दोऽत्र सहचारवाची, कषायसहचरितत्वं च कषायैः सह सर्वदा वर्तमानत्वात् । ते च नव, तान् भणामः, वेदत्रयं हास्यादिषट्कं च । तत्र वेदत्रिकमाह - स्त्रीपुरुषनपुंसकेति खीवेदः पुरुष For Private And Personal Use Only टीकाद्वयोपेतः ॥ ॥ २४ ॥
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy