________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
HAAAARGAUSSK*
(पारमा०) एषां प्रत्याख्यानावरणानां विपाको मिथ्यात्वाद्यावद्विरताविरतस्तावदेवेति जानीहि, परतः प्रमत्तादिषु चतुर्णामपि नास्ति विपाकः । इति गाथार्थः॥४७॥
चतुर्थकषायानाहकोहोमाणो माया, लोभो चरिमा उहंति संजलणा। एयाणुदए जीवो, नलहुइ अहखायचारित्तं ॥४॥ ___ व्याख्या-क्रोधमानमायालोभाः 'चरमास्तु' पुनः पश्चिमाः भवन्ति' जायन्ते 'संज्वलना' प्रागभिहिताः। एतेषां 'उदय' विपाकानुभवे 'जीव' सत्वः 'न लभते' न प्राप्नोति, यथैवाख्यातं कथितं यथाख्यातम्, तच्च तच्चारित्रं च । इति गाथार्थः॥४८॥
किमितिकृत्वा न लभते? इत्याह(पारमा०) क्रोधादयश्चरमाश्चत्वारो भवन्ति 'संज्वलनाः' संज्वलनाभिधानाः । एषामुदये जीवो न लभते यथाख्यातचारित्रम् । इति गाथार्थः॥४८॥.
एतदुदयावधिमाहएसिं जाण विवागो, मिच्छाओ जाव बायरो तिण्हं। लोभस्स जाव सुहुमो, होइ विवागो न परओ उ ॥४९||
व्याख्या-'एतेषां' उक्तखरूपकषायाणां 'येन' कारणेन 'विपाक' उदयो मिथ्यात्वात्सकाशाद्यावद्बादरगुणस्थानकं 'तिण्हं त्रयाणां जलरेखातिनिशवृक्षलताअवलेहिधनुर्लिखनरूपाणां, 'लोभस्य' पुनर्हरिद्राराग
For Private And Personal Use Only