________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एसिं जाण विवागो, मिच्छाओ जाव अविरओताव। परओ देसजयाइस, नस्थि विवागो चउण्हपि॥४५॥
व्याख्या-'एतेषां' अप्रत्याख्यानकषायाणां 'येन' कारणेन 'विपाक: उदयः, 'मिच्छाओ जाव अविरओ ताव' मिथ्यात्वात्सकाशाद्यावद्विरतगुणस्थानकं तावदुदय इति हृदयम् । 'परओ देसजयाइसु' परतो देश-17 यत्यादिषु विरताविरतादिषु 'नास्ति विपाको' न विद्यते अनुभवश्चतुर्णामपि द्वितीयाप्रत्याख्यानकषायाणां येन कारणेन । इति गाथार्थः ॥ ४५॥
तृतीयकषायोदये सर्वेविरत्यभावमाह(पारमा०)'एषां' अप्रत्याख्यानानां विपाको 'मिथ्यात्वात् मिथ्यादृष्टिगुणस्थानकाद्यावत् 'अविरतः' अविरतस-1 म्यग्दृष्टिस्तावत्, इतेरध्याहारादिति जानीहि । परतो 'देशयतादिषु' विरताविरतादिषु नास्ति विपाकश्चतुर्णामपि । इति गाथार्थः ॥ ४५ ॥
तृतीयानाह| कोहो माणो माया, लोभो तइया उ पच्चक्खाणा उ । एयाणुदए जीवो, पावेइ न सत्वविरइं तु ॥४६॥
व्याख्या-क्रोधमानमायालोभाः तृतीयास्तु' तृतीयाः पुना रेणुरेखाकाष्ठगोमूत्रिकाखञ्जनसदृशाः प्रत्याख्यानास्तु' प्रत्याख्यानावरणा एव, तुशब्दस्यैवकारार्थत्वात् । एतेषां 'उदये' विपाके 'प्रामोति' आसादयति, न
१ व्याख्याकारेण तु "जेण" इति पाठानुसारेण व्याख्यातम् । एवमग्रेऽपि ज्ञेयम् ॥
GOARDC REACCAREC
G
For Private And Personal Use Only