SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir SESSUARLARA ***** ख्यानावरणाः, प्रत्याख्यानं सर्वविरतिरूपमावृण्वन्तीति, बहुलवचनात्कर्तर्यनट् । तथा 'संज्वलनाः' सं ईषत्परीषहोपसर्गसंसर्गे चारित्रिणमपि ज्वलयन्तीतिकृत्वा । इति गाथार्थः॥४१॥ सम्प्रत्याद्यान् विशेषेणाहकोहो माणो माया, लोभो पढमा अणंतबंधीउ। एयाणुदए जीवो, इह सम्मत्तं न पावेइ ॥४२॥ - व्याख्या-क्रोधमानमायालोमा उक्तखरूपाः 'प्रथमास्तु' आद्यास्तु पर्वतराजिशैलस्तम्भधनवंशकुडङ्गिकृमिरागाः 'अनन्तबन्धिनः' अनन्तं संसारं कर्म वा बनन्तीत्येवंशीला अनन्तबन्धिनः । 'अनन्तानुबन्धिनः इति वा पाठो द्रष्टव्यो व्याख्यायाम् । सा चेयम्-अनन्तः अनन्तकालं यावत्, अनुबन्धश्चित्तस्याशुभो नुशयः प्रवाहोऽनन्तकालेनापि पश्चानिवृत्तिन भवति, तमनुवघ्नन्तीत्येवंशीला अनन्तानुबन्धिनः । सूत्रे तु प्राकृतत्वाद्गाथाभङ्गभयाचैवं पाठः तुशब्दस्तु प्रथमेत्यन्त्र पुनःशब्दार्थः। 'एयाणं' इत्यत्र चार्थोत्संबन्धनीयः। अनन्तानुबन्धिनां क्रोधमानमायालोभानां 'उदये अनुभवे इह' मनुष्यलोके सम्यक्त्वं 'न प्रामोति' नासादयति । इति गाथार्थः॥४२॥ तेषां चोदयो गुणस्थानकेषु कियहरं यावद्भवति? इत्याह(पारमा०) क्रोधो मानो माया लोभः प्रथमाः, 'अणंतबंधीउ' इति, आर्षत्वादनन्तानुबन्धिनः । एतेषामुदये जीवः १ व्याख्याकारेण तु "पढमा अणंतबंधी उ" इति पाठानुसारेण व्याख्यातम् ॥ AAAAAAAA For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy