________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
www.kcbatirth.org
कर्मविपाक:
॥२०॥
IARKHESARॐ5
चत्वारोऽपि भवन्ति' जायन्ते 'चतुर्भेदाः' चतुर्विकल्पाः। 'अण' इति अनन्तानुवन्धिनश्चत्वारः, अनन्त
टीकाइयो आसंसारं यावत् अनुबन्ध: प्रवाहो येषां तेऽनन्तानुबन्धिनः । अप्रत्याख्यानाश्चत्वार:-न विद्यते देशसर्व
पेतः॥ निषेधरूपं प्रत्याख्यानं येषामुदये तेऽप्रत्याख्यानाः, प्रसज्यनसमासस्य निषेधमात्रस्वात् । प्रत्याख्यानाश्चेति प्रत्याख्यानावरणा गृधन्ते, यथा सत्यभामा भामेति, आडू मर्यादायाम् । प्रत्याख्यानमा मयोदया वृण्वन्ति च्छादयन्ति येषामुदये सर्वप्रत्याख्यानं न भवति देशतस्तु भवति ते प्रत्याख्यानावरणाश्चत्वारः। संज्वलयन्ति यत्किंचिदेव खल्पमपि दुर्वचनादिकमासाद्योदयं यान्ति उपशाम्यन्ति च संज्वलनाम्चत्वारः। इति गाथार्थः ॥४१॥
अनन्तानुपन्ध्युदये फलाभावप्रदर्शनायाह(पारमा०) क्रोधो मानो माया लोभश्चत्वारोऽपि प्रत्येकं चतुर्भेदा भवन्ति । कथम् ? 'अण' इति अनन्तानुबन्धिनः, तत्रानन्तं संसारमनुबध्नन्तीत्येवंशीला अनन्तानुबन्धिनः। तथा 'अप्रत्याख्याना' प्रत्याख्यानं द्विधा, देशविरतिसर्व-| विरतिभेदात् । तत्र देशविरतिः सर्वविरत्यपेक्षयाऽल्पं प्रत्याख्यानम् , ततश्च न विद्यतेऽल्पमपि प्रत्याख्यानं यदुदयात्ते तथा । यत उक्तम्-"नाल्पमप्युत्सहेोषां, प्रत्याख्यातुमिहोदयात् । अप्रत्याख्यानसंज्ञाऽतो, द्वितीयेषु निवेशिता ॥१॥" अथवाऽल्पं प्रत्याख्यानमप्रत्याख्यानम् , तदप्यावृण्वन्तीत्यप्रत्याख्यानावरणा अप्येते । तदाह-"आवृण्वन्ति प्रत्याख्यानं स्वल्पमपि येन जीवस्य । तेनाप्रत्याख्याना-वरणास्ते नजिह सोऽल्पार्थः ॥१॥” तथा 'प्रत्याख्यानाः' इति प्रत्या-४
AA-%C3
For Private And Personal Use Only