SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिपक्खचउमासवच्छरजावज्जीवाणुगामिणो कमसो। देवनरतिरियनारयगइसाहणहेयवो भणिया ॥३॥" इति । षट् च दश च षोडश, षस्य उत्वं दस्य डत्वं निपातनात्, षडधिका दश षोडश, कषो-भवस्तस्यायो -लाभो येषु सत्सु तान् । तथा नव "भेदाः' विशेषा नोकषायाणाम् । कषाया नो भवन्ति नोकषायाः, प्रति षेधवाचको नोशब्दः, वेदत्रयहास्यादिरूपाः, तानिमान् स्त्रीपुंनपुंसकवेदहास्यरत्यरतिशोकमयजुगुप्सादीन् । इति गाथार्थः ॥ ४०॥ षोडश कषायभेदानाह(पारमा०) यदपि च चरित्रमोहं तदपि द्विविधं, न केवलं मोहनीय दर्शनमोहनीयचारित्रमोहनीयभेदाद्विविधम् । चरित्रमोहनीयमपि हुशब्दस्यैवकारार्थत्वाद्विविधमेव समासतो भवति, कषायनोकषायभेदात् । तांश्चोत्तरार्द्धनाह'पोडश' षोडशसंख्यापरिच्छिन्नान् जानीहि, क्रोधमानमायालोभानां चतुर्णामपि प्रत्येक चतुर्विधत्वात् । कष्यन्ते हिंस्यन्त दापरस्परं प्राणिनोऽस्मिन्निति कष:-संसारः, तं अयन्ते-गच्छन्ति जन्तव एभिरिति कषायास्तान् , नव भेदान् नोकषायाणां वेदत्रयहास्यादिषटलक्षणान् , जानीहीति अत्रापि संबध्यते । इति गाथार्थः ॥ ४० ॥ कषायान्नामोद्देशेनाहकोहो माणो माया, लोभो चउरोवि इंति चउभेया। अणअप्पच्चक्खाणा, पच्चक्खाणा य संजलणा ॥४१॥ व्याख्या-'क्रोधः' असहनरूपः, 'मान' स्तम्भरूपः, 'माया' कुटिलस्वभावा, 'लोभः' सञ्चयशीलता, ARMExterior EXC-BARASAX For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy