________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मविपाक
टीकाद्वयोपेतः॥
॥१९॥
दयेऽवश्यमशुभरूपस्य कर्मणो. बन्धो भवति । इति गाथार्थः ॥ ३९॥
उक्तं दर्शनमोहम्, साम्प्रतं चारित्रमोहमाह(पारमा०) जिनधर्म प्रद्वेषं वहति हृदयेन 'यस्य' कर्मणः 'उदयन' विपाकवेदनेन । चकारान्न केवलं हृदि प्रद्वेष धारयति, तत्फलमपि चावर्णवादादि करोति,तन्मिथ्यात्वं कर्म, संक्लिष्टस्तस्य पुनर्विपाक, नरकादिप्रापकत्वात् । इतिगाथार्थः॥३९॥ | दर्शनमोहनीयं त्रिविधमप्युक्त्वा चारित्रमोहनीयं गाथाऽऽद्यदलेनाह
जंपिय चरित्तमोहं, तंपि हुदुविहं समासओ होइ।सोलस जाण कसाया, नव भेया नोकसायाणं ॥४०॥ । व्याख्या-यदपि च चरित्रमोहं यदिति प्रागभिहितं चरित्रमोहं, अपिशब्दः संभावने समुच्चये वा, 'च'
पादपूरणे, चरेरित्रन्प्रत्ययान्तस्य चरित्रमिति रूपम् । निरुक्तं तु चितस्य कर्मणो रिक्तीकरणांचरित्रं व्रतं | |नियमो वाऽर्थः, तदपि 'समासेन' संक्षेपेण द्विविधं भणितं' प्रतिपादितम् । तुशब्दान केवलं मोहनीयं, चरित्रमपि द्विप्रकारमेव । षोडश 'जानीहि विद्धि 'कषायान् क्रोधमानमायालोभान प्रत्येक चतुर्विकल्पान् । ते चामी-"जलरेणुपुढविपव्वयराईसरिसो चउव्विहो कोहो। तिणिसलयाकट्ठडियसेल त्थंभोवमो माणो ॥१॥ मायावलेहिगोमुत्तिर्मिढसिंगघणवंसमूलसमा । लोहो हलिदखंजणकद्दमकिमिरागसारिच्छो ॥२॥
१ "तंपि समासेण होइ दुविहं तु” इत्यपि पाठो दृश्यते । व्याख्याकारेण तु "तंपि समासेण दुविह भणियं तु" इति पाठानुसारेण व्याख्यातम् , अत्र 'दुविह' इति पदं प्राकृतत्वाल्लुप्तविभक्तिकं ज्ञेयम् ।।
|॥ १९॥
For Private And Personal Use Only