________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-रागं' प्रीतिलक्षणं 'नापि' नैव, अपिशब्दस्यैवकारार्थत्वात् , 'जिनधर्मे तीर्थकृद्ध 'न च' नैव 'द्वेषं' अप्रीतिलक्षणं 'याति' गच्छति 'यस्य' कर्मणः 'उदयेन' प्रादुर्भावेन, स मिश्रस्य 'विपाकः' अनुभव उदयो वा । स च भवन् कियन्तं कालं यावद्भवति? अत आह-अन्तर्मुहूर्तमात्रं कालं मुहूर्तस्यान्त:-दिघ[टिको मुहूर्तस्तस्य मध्यः । इति गाथार्थः॥ ३८॥
मिथ्यावखरूपमाह(पारमा०) 'राग' नापि प्रीतिलक्षणं जिनधर्मे नापि 'द्वेष' अप्रीतिलक्षणं गच्छति, किन्तु मध्यस्थपरिणामः 'यस्य' कर्मण उदयेन भवति स मिश्रस्य 'विपाकः' उदयः 'अन्तर्मुहूर्त भवेत्काल' किश्चिन्न्यूनघटिकाद्वयलक्षणम्, तत ऊर्ध्वमवश्य मिथ्यात्वे सम्यक्त्वे वा गमनात् । इति गाथार्थः ॥ ३८ ॥
मिथ्यात्वमाहजिणधम्ममि पओसं, वहइ यहियएण जस्स उदएणं। तं मिच्छत्तं कम्म,संकिहो तस्स उविवागो॥३९॥ 'व्याख्या-'जिनधर्मस्य वीतरागधर्मस्य 'प्रदेष' मत्सरं 'वहति च' याति च 'हृदयेन' चेतसा, करोतीत्यर्थः । 'यस्य' कर्मणः 'उदये' विपाकानुभवे । चकारान्न केवलं हृदि प्रदेषं वहति, तदुदयजनितं कार्यं चावर्णवादादि शासनस्य विधत्ते, 'तन्मिथ्यात्वं कर्म' मिथ्याऽलीकं विपरीतं वा तत्त्वपरिज्ञानं यस्मिन् तन्मिथ्यात्वं, 'संक्लिष्ट' अशुभतस, तुशब्दस्य पुनःशब्दार्थत्वात्तस्य पुनः 'विपाकः' अनुभव उदयो वा । तदु
For Private And Personal Use Only