________________
Shri Mahavir Jain Aradhana Kendra
कर्मवि
पाकः
॥ १८ ॥
शुद्धं, मिथ्यात्वमविशुद्धम् । इति गाथार्थः ॥ १६ ॥
सम्यक्त्व स्वरूपमाह-
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
केवलनाणुवलद्धे, जीवाइपयत्थ सद्दहे जेण । तं सम्मत्तं कम्मं, सिवसुहसंपत्तिपरिणामं ॥ ३७ ॥ व्याख्या - केवलमसहायं ज्ञानं केवलज्ञानम्, तेनोपलब्धा ज्ञातास्तीर्थकृद्भिर्ये जीवादिपदार्थाः, तानागमान्निसर्गाया विज्ञाय 'श्रदधीत' प्रतिपद्येत 'चेन' कर्मणा हेतुभूतेन तत्सम्यक्त्वं कर्म यथाऽग्रस्थितवस्तुप रिच्छेदात्मकं प्रतिपत्तिरूपं सम्यग्दर्शनमित्यर्थः । शिवं निरुपद्रवस्थानं मोक्षः तस्मिन् सुखं परमानन्दरूपं तस्य संप्रासिरवासिः सा परिणामो यस्य तत् 'शिवसुखसंप्रातिपरिणामम् । इति गाथार्थः ॥ ३७ ॥ मिश्रस्वरूपमाह-
( पारमा० ) केवलज्ञानेनोपलब्धानधिगतानर्थान् केवलिभिर्जीवादिपदार्थान् जीवाजीव पुण्यपापास्स्रवसंबर निर्जराबन्धमोक्षलक्षणान् श्रदधीत 'येन' कर्मणा हेतुभूतेन तत्सम्यक्त्वं कर्म । विशेषणद्वारेणैतत्फलमाह- 'शिवसुखसंप्रातिपरिणाम' शिवसुखसंप्राप्तिः परिणामः परिणतिर्यस्य । इति गाथार्थः ॥ ३७ ॥
मिश्रमाह
रागं नवि जिणधम्मे, नवि दोसं जाइ जस्स उदयणं । सो मीसस्स विवागो, अंतमुहुत्तं भवे कालं ॥३८॥ १ व्याख्याकारेण सु- "न य" इति पाठानुसारेण व्याख्यातम् ॥
For Private And Personal Use Only
टीकाद्वयोपेतः ॥
॥ १८ ॥