________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
SACCAEX
दृश्यते यथावदवलोक्यते वस्त्वनेनेति दर्शनम् , तन्मोहयति मूढतां नयति यत्कर्म तदर्शनमोहं प्रथमम् । चर्यते तदिति चरित्रम् , तन्मोहयति यत्कर्म तच्चरित्रमोहं द्वितीयम् । इति गाथार्थः॥ ३५॥
संक्षेपतो मोहनीयस्य द्वैविध्यमभिधाय प्रथम दर्शनमोहनीयभेदानाहदसणमोहं तिविहं, सम्मं मीसं च तह य मिच्छत्तं । सुद्धं अद्धविसुद्धं, अविसुद्धं तं जहाकमसो ॥३६॥ | व्याख्या-दृशिर प्रेक्षणे' दृष्टिदर्शनं यथाऽवस्थितवस्तुपरिच्छेदः, तन्मोहयति यत्कर्म, येन कर्मणाऽन्यथास्थितं वस्तु अन्यथा परिच्छिद्यते तदर्शनमोहम् । तच्च त्रिविधम् , 'सम्मं मीसंचतह य मिच्छत्त' सम्यक्त्वं सम्यग्मिथ्यात्वं तथा मिथ्यात्वं चेति । चख परतः संबन्धः। शुई अर्द्धविशुद्धं अविशुद्धं चेति । तत्र मिथ्या त्वपुद्गला एव शोधिताः कारणाभावे विकाराजनकत्वेन शुद्धाः सम्यक्त्वमुच्यते। तथा त एवार्द्धविशुद्धाः खरूपतः किश्चिदिकारजनकत्वेन अर्द्धविशुद्धं सम्यग्मिथ्यात्वमुच्यते २।तें एव मिथ्यात्वपुद्गला अतत्त्वेषु तत्त्वाभिनिवेशरूपाः अविशुद्धं मिथ्यात्वमुच्यते, विषविकारतुल्यमिति तात्पर्यम् ३ । 'यथाक्रमशों यथापरिपाव्या वक्ष्यते । इति गाथार्थः ॥ ३६॥
हेतुद्वारेण सम्यक्त्वस्वरूपं समर्थयन्नाह(पारमा० ) दर्शनमोहं त्रिविधम् । 'सम्यग्' इति सम्यक्त्वम् , सम्यगित्येतस्य भावः सम्यक्त्वम् , इत्यतो 'मिथ' सम्यग्मिथ्यात्वम् । तथा मिथ्यात्वं च, शुद्ध अर्द्धविशुद्ध अविशुद्धम्, 'तद्यथाक्रमशः' इति सम्यक्त्वं शुद्ध, मिश्रमर्द्धवि
For Private And Personal Use Only