SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कर्मवि टीकाद्वयोपेतः॥ लिइह' संसारे 'सम्यक्त्वं' उक्तस्वरूपं न प्रामोति । इति गाथार्थः ॥ ४२ ॥ पाका सम्पति येषु गुणस्थानेष्वेषामुदयो येषु च न इत्येतदाह॥२१॥ जं परिणामो किहो, मिच्छाओ जाव सासणो ताव । सम्मामिच्छाईसुं, एसिं उदओ अओ नत्थि ॥४३॥ व्याख्या-'यत्' यस्मात्कारणात् 'परिणामः' अध्यवसायः 'क्लिष्टः' अशुभतमः 'मिथ्यात्वात् मिथ्यादृष्टिगुणस्थानकात्सकाशाद्यावत्सास्वादना, सहाखादनेन वर्तते साखादन, सम्यक्त्वमाखाद्य पुनर्वमति अन्तर्मुहूर्तमानकालात् साखादनगुणस्थानकं यावत्तावक्लिष्टपरिणामोऽनुवर्तते । ननु 'मिथ्यात्वात्' इति पञ्चम्यैवावध्यर्थों लभ्यते तत्किमर्थ यावत्तावच्छब्दयोईयोरुपादानमिति ?, उच्यते-सापेक्षतया यावत्तावतोरुपादानमविरुद्धम् , अथवा मिथ्यादृष्टिगुणस्थानकमवधिरवधिमत्साखाद्नगुणस्थानकम् , अवधिमत एव यावच्छन्दोऽवधिमत्त्वाभिव्याप्तिप्रदर्शकः तावच्छब्दस्तु तस्यैवावधिमतः पर्यन्तप्रदर्शका, संबन्धशब्दो वा, मिथ्यादृष्टिगुणस्थानकात्सकाशात्सास्वादनगुणस्थानकं यावद्भवति, न परतो भवति क्लिष्टाध्यवसायः, तत | एव निवर्तते इति तात्पर्यार्थः । ननु कथमिदमवसीयते ? इत्यत आह-सम्यगमिथ्यात्वादिषु' सम्यग्मिथ्यादृष्टिगुणस्थानकेषु, आदिशब्दाविरतादिगुणस्थानकेषु च । एतेषां अनन्तानुबन्धिनां 'उद्यो' अनुभव: 'यतः' यस्मात्कारणात् 'नास्ति' न विद्यते इति युक्तिः । इति गाथार्थः ॥ ४३ ॥ १ व्याख्याकारेण तु "जओ" इत्येतत्पाठानुसारेण व्याख्यातम् । २-"मासाद्य" इत्यपि ॥ RECESSASAR ॥२१॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy