________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सातावेदनीयस्य भवति विपाकः । 'हुः' निश्चये । यदसिना तत्र छिद्यते स पुनर्विपाकः 'असातस्य' भीमो भीमसेन इति - वदसातवेदनीयस्य । इति गाथार्थः ॥ २९ ॥
सम्प्रति चतुर्गतिविषयत्वं नियतगतिव्यवस्थया प्रस्तौति
ऐयं सुहदुक्खकरं, चउगइमावन्नयाण जीवाणं । सामन्नणं भणिमो, सुहदुक्खं दुसु दुसु गईसु ॥३०॥ व्याख्या- ' एवं ' उक्तनीत्या 'सुखदुःखकरूं' सुखदुःखोत्पादक, केषाम् ? इत्याह- 'चतुर्गत्यापन्नानां' चतुर्गत्य - वस्थितानां 'जीवानां' प्राणिनां सामान्येन 'भणिमो' भणामः । किं तत् ? इत्याह-सुखदुःखं द्वयोर्द्वयोर्गत्योः । इति गाथार्थः ॥ ३० ॥
सातावेदनीयानुभवं गतिद्वये निदर्शयन्नाह -
( पारमा० ) 'एतद्' वेदनीयं सुखदुःखकरं चतुर्गत्यापन्नानां 'जीवानां' नारकतिर्यङ्कनरामरस्थानां सामान्येन भणामः 'सुखदुःखं द्वयोर्द्वयोर्गत्योः सुखं द्वयोर्देवमनुजगत्योः, दुःखं द्वयोर्नरकतिर्यग्गत्योः । इति गाथार्थः ॥ ३० ॥
एतदेवाह -
| देवेसु य मणुपसु य, तत्थ विसिट्ठेसु कामभोगेसु । जं देवभुंजइ जीवो, सो उ विवागो उ सायस्स ॥३१॥ १ “एवं” इत्यप्यस्ति, अतो व्याख्याकारेण तदनुसारेण व्याख्यातम् । २ 'तं भुं-' इत्येतदनुसारेण व्याख्याकारेण व्याख्यातम् । एवमप्रेत नगाथायामपि ॥
For Private And Personal Use Only