________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवि
टीकाद्वयो. पेतः॥
पाकः
हनमाखादनं, स इव दृश्यते तादृशः, तादृश एव तादृशकः कन्नन्तः । अतस्तद् वेदनीयं कर्म वेदनस्वरूपं सुखदःखोत्पादकं 'मुणह' जानीत । 'लिप्तं दिग्धं 'निशितं' तीक्ष्णम् । इति गाथार्थः ॥ २८॥
वेदनीयस्य दृष्टान्तद्वारेण वरूपमाह। (पारमा० )मधुना-क्षौद्रभ्रामरादिना लिप्तः-उपदिग्धो निशितः-तीक्ष्णः, स चासौ करवालश्च मधुलिशनिशितकरवालः, तद्धाराया जिह्वया यादृशं लेहनं तादृशं वेदनीय' सुखदुःखोत्पादकं जानीत । 'ज्ञो जाणमुणौ' (८-३-७) इति प्राकते. आदेशविधानात् 'मुणह' इति सिद्ध्यति । इति गाथार्थः ॥२८॥
सुखदुःखोत्पादकत्वमेव भावयतिमहआसायणसरिसो, सायावेयस्स होइ ह विवागो। जं असिणा तहि छिज्जइ, सो उ विवागो असायस्स २९ | व्याख्या-मधु भ्रमरीरसःशर्करादि वा,तस्यास्वादनं लेहन, तेन सदृशस्तेन तुल्यः 'सायावेयस्स' सातावेदनीयस्यैव सुखानुभवरूपस्य भवति विपाकः' अनुभवः। हुशन्दस्यैवकारार्थत्वात् । उक्तं सातवेदनीयस्वरूपम्। असातवेदनीयस्वरूपमाह-यच 'असिना' खड्नेन 'छिद्यते विधाक्रियते सः 'तु' पुनः 'विपाकः' अनुभवः 'असातवेदनीयस्यैव असुखानुभवस्यैव । इति गाथार्थः ॥ २९ ॥
निगमनपूर्वक गतिचतुष्के सुखदुःखमतिदिशन्नाह(पारमा०) 'मध्वास्वादनसदृशः' मधुलिप्तनिशितनिस्त्रिंशधाराऽवलेहने यत् प्रथमतो मधुररससंवेदनं तत्सदृशः
।
॥१५॥
For Private And Personal Use Only