________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वस्तुस्तोमग्रहणरूपं केवलदर्शनमित्यर्थः । यद् वृणोति' आच्छादयति तत् 'केवलस्य इति केवलदर्शनस्य भवेदावरणमिति | संबन्धः । इति गाथार्थः॥२६॥
दर्शनावरणं निगमयन् वेदनीयप्रस्तावनायाहभणियं दंसणवरणं, तइयं कम्मं तु होइ वेयणियं । तं असिधारासरिसं, जह होइ तहा निसामेह ॥२७॥ | व्याख्या-'भणितं' उक्तं 'दर्शनावरणं कर्म । तृतीयं कर्म 'तु' पुनः 'भवति जायते वेदनीयं तत् 'असिधारासदृशं' खगधारातुल्यं 'यथा' येन प्रकारेण भवति तथा' तेन प्रकारेण 'निशमयत' आकर्णयत यूयम् । इति गाथार्थः ॥ २७ ॥ दृष्टान्तेन खरूपं प्रकटयन्नाह
(पारमा०) भणितं दर्शनावरणं द्वितीयं कर्मेत्यर्थाद्गम्यते । तृतीयं कर्म पुनर्भवति वेदनीयं तदसिधारासदृशं यथा है भवति तथा निशमयत । इति गाथार्थः ॥ २७ ॥ महलितनिसियकरवा-लधारजीहाइ जारिसं लिहणं। तारिसयं वेयणियं, सुहृदुहउप्पायगं मुणह ॥२८॥ | व्याख्या-मधुना लिप्तं मधुलिप्त, तच तनिशितकरवालं च मधुलिप्तनिशितकरवालम् , तस्य धारा मधुलिप्सनिशितकरवालधारा तस्याः जिह्वया यादृशं लेहनं, य इव दृश्यते यादृशः कन्नन्त उपमानभूतः, तल्ले
१ व्याख्याकारेण-"जारिसयलिहणम्" इत्येतत्पाठानुसारेण व्याख्यातन् ॥
FACACACARAX
For Private And Personal Use Only