________________
Shri Mahavir Jain Aradhana Kendra
www.kobatrth.org
Acharya Shri Kailassagersuri Gyanmandi
कर्मविपाका
टीकाको
पेतः॥
॥१४॥
MAHARAJ-AC-%E0
निद्राप्रचलाप्रचलास्त्यानर्द्धिलक्षणं प्रबलविपाकं निद्रात्रिकं परिगृह्यते । आगमेऽप्येवमेवासां क्रमः । तथाहि-"निद्दा तहेव पयला, निद्दानिदा य पयलपयला य । तत्तो य थीणगिद्धी, उ पंचमा होइ नायषा ॥१॥" अत्र तूत्क्रमांभिधानमनानुपूर्व्यपि व्याख्यानमिति न दोषः। चक्षुरिति चक्षुर्दर्शनं, तदू 'आवृणोति' आच्छादयतीति चक्षुर्दर्शनावरणम् । शेषेन्द्रियमिति शेषेन्द्रियदर्शनम् । शेषाणि स्पर्शनरसनघ्राणश्रोत्रमनांसि तेषामावरणं भवति 'अचक्षुरावरणं' अचक्षु दर्शनावरणम् । इति गाथार्थः ॥२५॥
अवधिदर्शनावरणकेवलदर्शनावरणे व्याचिख्यासुराहसामन्नुवओगं जं, वरेइ तं ओहिदंसणावरणं । केवलसामन्नं जं, वरेइ तं केवलस्स भवे ॥ २६ ॥ व्याख्या-उपयुज्यतेऽसावित्युषयोमः, सामान्यश्चासावुपयोगश्च सामान्योपयोगोऽवधेरिति गम्यते । तं 'सामान्योपयोर्ग' सामान्यपरिबछेदं यद् 'घृणोति' छादयति कर्म तदू 'अवधिदर्शनावरणं' अवधिसामान्यावबोधावरणं भवेदिति संबन्धः। 'केवलसामान्य' केवल दर्शनं 'वृणोति' छादयति यत्कर्म तत् 'केवलस्य' केषलदर्शनस्यावरणं भवेत् भवति जायते । इति माथार्थः ॥ २६ ॥
उक्तं द्वितीयकर्म, तृतीयमाह(पारमा०) सामान्यमविशेषग्राहि रूपिद्रव्याणामिति गम्यते, रूपिद्रव्यसामान्यमित्यर्थः । तस्योपयोगो रूपिद्रव्यसामान्यग्रहणमिति यावत् । तत् कर्मभूतं यदावृणोति तदवधिदर्शनावरणम् । केवलस्योक्तरूपस्व सामान्य सकलजगद्भावि-!
॥१४॥
For Private And Personal Use Only