SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सुखप्रतिबोधनिद्रातोऽतिशायित्वम्।प्रचलति घूर्णतेऽस्यामिति प्रचला' पुनर्या स्थितस्य' उपविष्टस्य ऊर्द्धस्थस्य वा 'उद्धावति' प्राबल्येनायाति न तु गतिमतः । प्रचलातोऽतिशायिनी प्रचला प्रचलाप्रचला चतुर्थी, तस्या उदयश्चमणे । अत एव स्थानस्थितस्वप्नुभवप्रचलातोऽतिशायित्वम् ॥ २३ ॥ स्त्याना पिण्डीभूता ऋद्धिः आत्मनः शक्तिरूपा यस्यां स्वापावस्थायां सा 'स्त्यानद्धिः सा च पुनर्दिनचिन्तितस्यार्थस्य साधनी प्रायः। श्रूयते च सिद्धान्ते-यथा कोऽपि क्षुल्लको दिवा द्विरदखलीकृतस्तस्मिन् बद्धाभिनिवेशो रजन्यां स्त्यानझुंदयावेशादुत्थाय तद्दन्तमुशलयुगलमुत्पाव्योपाश्रयद्वारि विहाय पुनः सुप्त इत्यादि । सा संक्लिष्टकर्मण उदयाद्भवति 'नियमेन' अवश्यं, ततो नरकगमनात् । इति सार्द्धगाथाद्वयार्थः ॥२४॥ निद्रापञ्चकं निगमयन चक्षुर्दर्शनावरणमाहनिद्दापणगं एयं, चक्खू आवरइ चक्खुआवरणं । सेसिंदियआवरणं, होइ अचक्खुस्स आवरणं ॥२५॥ _ व्याख्या-निद्रापञ्चकमेतदुक्तखरूपम् । चक्षुष आवरणं चक्षुरावरणं, चक्षुर्दर्शनावरणमिति दर्शनशब्दोऽत्र द्रष्टव्यः, यत्कर्म चक्षुर्दर्शनं छादयति तच्चक्षुरावरणमुच्यते । शेषेन्द्रियाणामावरणं शेषेन्द्रियावरणम् , अतस्तेषां घ्राणरसनस्पर्शनश्रवणमनसामावरणं छादनं भवत्यचक्षुषः 'आवरण' स्थगनम् । इति गाथार्थः ॥२५॥ उक्तं चक्षुरचक्षुर्दर्शनावरणम् । साम्प्रतमवधिदर्शनावरणस्वरूपमाह(पारमा० ) निद्रापञ्चकमेतत् पूर्वोक्तम् । एतच्च सूत्रकृता क्रमेण नोक्तम् । क्रमश्चैवम्-निद्रा प्रचला निद्रानिद्रा प्रचलाप्रचला स्त्यानद्धिरिति । यथोत्तरं विपाकाधिक्यात् । तथा च सति स्त्यानद्धित्रिकमित्युक्ते स्त्यानसिहचरितं निद्रा For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy