SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra कर्मवि पाकः ॥ १० ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अणुगामिवड्डमाणय-भेयाइसु वण्णिओ इहं ओही । तं आवरेइ जं तं, अवहीआवरणयं जाण ॥ १५ ॥ व्याख्या - अनुगमनशीलोऽनुगामी, वर्डनशीलो वर्द्धमानः, वर्डमान एवं वर्द्धमानकः, स्वार्थे कः । अनुगामी च वर्डमानकश्चानुगामिवर्द्धमान कौ, तौ च तौ भेदौ चानुगामिवर्द्धमानकभेदौ, तौ आदिर्येषां भेदानां तेऽनुगामिवर्द्धमानकभेदादयः, तेषु 'वर्णितः' कथितः 'इह' प्रवचने व्याख्याप्रस्तावे वा । अनुस्वारः प्राकृतत्वात् । 'अवधि:' मर्यादापरिच्छेदलक्षणस्तं 'आवृणोति' च्छादयति यदपि च कर्म 'अवध्यावरणकं' तदपि अवध्याच्छादकं तदपि ज्ञातव्यमित्यध्याहारः । इति गाथार्थः ॥ १५ ॥ 'उक्तमवधिज्ञानावरणम् । मनःपर्यवज्ञानावरणस्वरूपमाह (पारमा० ) अवशब्दोऽधः शब्दार्थः । अव अधोऽधो विस्तृतं वस्तु धीयते परिच्छिद्यतेऽनेनेत्यूवधिः । यद्वाऽवधिर्मर्यादा रूपिद्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा, तदुपलक्षितं ज्ञानमप्यवधिः । स च अनुगामिवर्द्धमानकभेदादिषु, इति तृतीयार्थे सप्तमी । ततश्चानुगामिवर्द्धमानकभेदादिभिः 'वर्णितः' प्रतिपादितः इहेति पूर्ववत् । तदावृणोति यत्कर्म तदू 'अवध्यावरणम्' अवधिज्ञानावरणमिति जानीहि । इति गाथार्थः ॥ १७ ॥ मनः पर्यवज्ञानावरणमाह रिउमइविउलमईहिं, मणपज्जवनाणवण्णणं समए । तं आवरियं जेणं, तंपि हु मणपज्जवावरणं ॥ १६ ॥ १ व्याख्याकारेण तु " जंपि य ओही आवरणयं तंपि” इत्येतत्पाठानुसारेण व्याख्यातम् । २ 'पुण' इत्यपि ॥ For Private And Personal Use Only टीकाद्वयोपेतः ॥ ॥ १० ॥
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy