SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( पारमा० ) श्रवणं श्रुतम्, अभिलापप्लावितार्थग्रहणहेतुरुपलब्धिविशेषः । एवमाकारं वस्तु घटशब्दाभिलाप्यं जलधारणाद्यर्थक्रियासमर्थम्, इत्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रिय| मनोनिमित्तोऽवगमविशेष इत्यर्थः । श्रुतं च तज्ज्ञानं च श्रुतज्ञानं चतुर्दशभेदेषु गतम्, इति द्वितीयार्थे सप्तमी । ततश्चतुर्दशभेदान् प्राप्तं चतुर्दशभेदमिति यावत् । ते चामी- अक्षरश्रुतं, अक्षरश्रवणदर्शनादेरर्थप्रतीतिः १ । अनक्षरश्रुतं, | सेण्टितादिश्रवणान्मामाह्वयतीत्यादिरूपाभिप्रायपरिज्ञानम् २ । समनस्कस्य मनो युक्तेन्द्रियजमुक्तरूपं श्रुतं संज्ञिश्रुतम् ३ । | तदेवामनस्कस्य मनोरहितेन्द्रियजमसंज्ञिश्रुतम् ४ । सम्यग्रदृष्टेर्जिनप्रणीतमितरद्वा श्रुतं यथास्वरूपागमात् सम्यक्श्रुतम् ५ । तदेव मिथ्यादृष्टेरन्यथावगमान्मिथ्या श्रुतम् ६ । सादिश्रुतं, ज्ञानात्मकं सम्यग्दृष्टेरज्ञानात्मकं वा सम्यक्त्वच्युतस्य मिथ्यादृष्टेः ७ । पूर्वमलब्धसम्यक्त्वस्य तु तदेवानादिश्रुतम् ८ । सपर्यवसितं, भव्यानां केवलोत्पत्तौ ध्रुवं पर्यवसानात् ९ । अपर्यवसितमभव्यानां केवलोत्पादाभावात् १० । अर्थभेदे सदृशालापकं गमिकम् ११ । इतरदगमिकम् १२ । अङ्गप्रविष्ट - माचाराद्यङ्गानि १३ । अनङ्गप्रविष्टं, शेषं प्रकीर्णकादि १४ । एवं चतुर्दशभेदं श्रुतज्ञानमत्र जैनसमये 'वर्णितं' कथितम् । स चायम् - " अक्खरसन्नी सम्मं, साईयं खलु सपज्जवसियं च । गमियं अंगपविद्धं, सत्तवि एए सपडिवक्खा ॥ १ ॥” इति । तस्यावरणं यत्पुनस्तत् 'श्रुतावरणम्' इति श्रुतज्ञानावरणं भवति द्वितीयम् । इति गाथार्थः ॥ १४ ॥ इदानीमवधिज्ञानावरणमाह For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy