________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कर्मवि- पाक:
**%*%
टीकाद्वयो
पेतः
AAROGRA
भवति 'प्रथम' आद्यम् । इति गाथार्थः ॥ १३ ॥
अधुना श्रुतज्ञानावरणमाहचोदसभेएसु गयं, सुयनाणं इत्थ वणियं समए । तस्सावरणं जं पुण, सुयआवरणं हवइ बीयं ॥१४॥ | व्याख्या-चतुर्भिरधिका दश चतुर्दश, ते च ते भेदाश्च चतुर्दशभेदाः, तेषु 'गतं' स्थितं 'श्रुतज्ञान' प्रतीदातं 'अन' कर्मव्याख्याप्रस्तावे 'वर्णितं' प्रतिपादितम् 'समये सिद्धान्ते, 'तस्य' श्रुतज्ञानस्य 'आवरण'
छादनं यत्पुनः तच्छृतावरणं भवति द्वितीयमिति गाथाक्षराथें। भावाथेंस्त्वयम्-श्रुतज्ञानं चतुर्दशविधं प्रतिपादितं तद्यथा भवति तथा दर्यते श्रुतानुसारेण-अक्षररूपं श्रुतमक्षरश्रुतम् १। तत्प्रतिपक्षोऽनक्षरश्रुतं उच्छसितादि ।संज्ञिनो मनोयुक्तस्य श्रुतं संज्ञिश्रुतम् ३ । तद्विपरीतमसंज्ञिश्रुतम् ४ । सम्यगविपरीतं श्रुतं सम्यक्श्रुतम् , सम्यग्दृष्टेर्वा यच्छ्रुतं तत्सम्यकश्श्रुतम् ५। तद्विपरीतं मिथ्याश्रुतम् ६। सादि, आदियुक्तं श्रुतं सादिश्रुतम् ७ । अनादिश्रुतं, अविद्यमानादि श्रुतमनादिश्रुतम् ८ । सह पर्यवसानेन वर्तते यत्त- त्सपर्यवसितम् ९ तद्विपरीतं त्वपर्यवसितम् १० । गमाः सदृशपाठविशेषाः, ते विद्यन्ते यस्य तत्र वा भवं तद्गमिकम् ११ । तत्प्रतिपक्षस्त्वगमिकम् १२ । अङ्गप्रविष्टं अङ्गश्रुतम् १३ । तविपरीतं त्वनङ्गश्रुतम् १४॥ एवंभूतमिदं श्रुतज्ञानमावृणोति च्छादयति यज्ज्ञानं तच्छुतज्ञानावरणम् । इति गाथाभावार्थः॥१४॥
'अवधिज्ञानावरणस्वरूपभेदानाह
ROCISCARRORSCALAGAASG
**
4-594
*
For Private And Personal Use Only