SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्ञानावरणम् । इति गाथाभावार्थः ॥१३॥ उक्तं मतिज्ञानावरणम् । श्रुतज्ञानावरणस्वरूपमाह(पारमा०) 'मन ज्ञाने' मननं मतिः। यद्वा मन्यते इन्द्रियमनोद्वारेण नियतं वस्तु परिच्छिद्यतेऽनयेति मतिः, योग्य-1 देशावस्थितवस्तुविषय इन्द्रियमनोनिमित्तोऽवगमविशेषः । मतिश्चासौ ज्ञानं च मतिज्ञानम् । सच्चाष्टाविंशतिभेदम् 'अत्र' जैने समये वर्णितम् । तद्यथा-अवग्रह ईहाऽपायो धारणा च । तत्रावग्रहो द्विधा, व्यञ्जनावग्रहोऽर्थावग्रहश्च । तत्र व्यञ्जनावग्रहश्चक्षुर्मनोवर्जेन्द्रियाणां स्वविषयद्रव्यैः सह संबन्धः, ततश्चतुर्धा । नयनमनसोरप्राप्यकारित्वेन विषयसंबन्धाभावादस्य चेन्द्रियविषययोः संबन्धग्राहकत्वादिति भावः । अर्थावग्रहः, किमपीदमित्यव्यक्तं ज्ञानम् । स च मनःसहितेन्द्रियपञ्चकजन्यत्वात्षोढा । अवगृहीतस्यैव वस्तुनोऽपि किमयं भवेत् ? स्थाणुः पुरुषो वा ?, इत्यादिवस्तुधर्मान्वेषणालामको वितर्क ईहा । साऽपि मनःषष्ठेन्द्रियपञ्चकजन्या इत्यतः पोद्वैव । ईहितस्यैव वस्तुनः स्थाणुरेवायं न पुरुषः, इति निश्चयात्मको बोधोऽपायः । अयमपि पूर्ववत्वोढेव । निश्चितस्यैवाविच्युतवासनात्मकं धरणं धारणा । साऽप्युक्तरीत्या पोलैव । तदेवमर्थावग्रहादीनां चतुर्णा प्रत्येकं षड्डिधत्वाच्चतुर्विंशतिः । ततश्च व्यञ्जनावग्रहभेदचतुष्टयेन सहाष्टाविंशतिविधं मतिज्ञानम् । तथा चागमः-"पंचहिवि इंदिपहि, मणसा अत्थोग्गहो मुणेययो । चक्विंदियमणरहियं, वंजणमीहाइयं छद्धा ॥१॥” इति । तदेवमष्टाविंशतिभेदं मतिज्ञानमावृणोति यत्कर्म तदष्टाविंशतिभेदमपि सामान्येन मतिज्ञानावरणं १ वज' इत्यपि ॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy