________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाकः
टीकाद्वयोन पेतः॥
कर्मवि
अट्ठावीसइभेयं, मइनाणं इत्थ वणियं समए । तं आवरेइ जं तं, मइआवरणं हवइ पढमं ॥१३॥
__ व्याख्या-अष्टाविंशतिभेदं मतिज्ञानं संख्यया 'अन' लोके 'वर्णितं कथितं 'समये' सिद्धान्ते तद् ॥८ ॥ 'आवृणोति' च्छादयति यत्तन्मत्यावरणं भवति 'प्रथम' आद्यम् । इति गाथासमासार्थः। भावार्थस्त्वयम्
यदुक्तमष्टाविंशतिभेदं मतिज्ञानं तत्कथं स्यात् ? उच्यते आगमानुसारेण-व्यञ्जनावग्रहः, अर्थावग्रहश्च । तत्र व्यज्यन्ते व्यक्तीक्रियन्ते एभिरर्थाः व्यञ्जनानीन्द्रियाणि तैरवग्रहणमवग्रहः सामयिकः, सामान्यार्थपरिच्छेदः व्यञ्जनावग्रहः । स च चतुर्विधो नयनमनोवयम्" इतिवचनात् । तथाहि-न चक्षुषाऽर्थो व्यज्यते गम्यते प्राप्यते, अप्राप्यकारित्वाचक्षुषः। किन्तु योग्यदेशस्थमेव चक्षुर्योग्यदेशस्थमर्थ गृह्णाति साक्षात्करोति, न पुनः प्राप्य गृह्णाति । प्राप्यग्रहणे चक्षुषः स्फोटादिरनिन्द्रियं चाधिष्ठानं स्यात् । तथा मनोऽप्येवमेव द्रष्टव्यम्, तस्याप्यप्राप्यकारित्वात् । अर्थस्थावग्रहणमवग्रहोऽर्थपरिच्छेदः । सोऽपि सामयिक एव । स च
षड्विधः, इन्द्रियपश्चकेन मनसा चार्थग्रहणात् । तदुत्तरकालभाविनी ईहो, ईहनमीहा चेष्टा कायवाझनोलदक्षणा । सा तु मौहूर्तिकी षड्विधा । तदनन्तरमपायो निश्चयः। सोऽपि षड़िध एव मौहर्तिकः। ततो धारणा,
स्मृतिः कालान्तरेऽर्थस्मरणरूपा अर्थाविच्युतिर्वा साऽपि षड्विधा, असंख्यकालिकी संख्येयकालिकी वा। एवं सर्वेऽपि मिलिताश्चतुर्विंशतिभेदा व्यञ्जनावग्रहचतुर्भेदसहिता अष्टाविंशतिर्भेदा मतिज्ञानस्य जायन्ते ।। एतच्चाष्टाविंशतिभेदभिन्नं मतिज्ञानं येन कर्मणा छाद्यते खकार्यजननं प्रति अकिञ्चित्करं क्रियते तन्मति
HESSAGE G565WX
1455255A4CX
॥८॥
For Private And Personal Use Only