SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir RECASS व्याख्या-यथा 'निर्मलाऽपि' काचकामलादिदोषरहिताऽपि 'चक्षुः' दृष्टिः 'पटेन' वस्त्रेण 'केनापि' अनिनर्दिष्टनाना 'छादिता' स्थगिता सती मन्दं मन्दतरं पश्यति आवारकविशेषात् । सा निर्मला यद्यपि खभावेन । इति गाथार्थः ॥ ११॥ उक्तो दृष्टान्तः, दार्शन्तिकयोजनामाह तथा मतिश्रुतज्ञानावरणं अवधिमन केवलानामावरणं यत्तजीवं 'निर्मलरूपं शुद्धखरूपम् 'आवृणोति' च्छादयति 'एभिर्भदैः' वक्ष्यमाणलक्षणैः । इति गाथार्थः॥१२॥ मतिज्ञानभेदनिदर्शनद्वारेणावरणखरूपमाह(पारमा०) यथा निर्मलमपि चक्षुः पटेन 'केनापि' मसृणमसूणतरादिना छादितं सत् मन्दं 'मन्दतरक' मन्दतरमेव र मन्दतरकं पश्यति तन्निर्मलं यद्यपि चक्षुर्हि स्वभावनिर्मलमपि मसृणपटेनाच्छादितं मन्दं पश्यति महणतरेण तु मन्द तरमिति । चक्षुःशब्दस्य प्राकृतत्वात्स्त्रीत्वम् ॥ ११॥ तथा मतिश्रुतज्ञानयोर्द्विवचनस्य बहुवचनं प्राकृतत्वात् । अवधिमन केवलानां मनःशब्देन मनःपर्यवमुच्यते सूचनात्सूत्रस्य । मतिश्रुतज्ञानयोरवधिमनःपर्यवकेवलानां चावरणं तथेति । कोऽर्थः ? यथा यथा मतिज्ञानावरणादीनां निचितत्वं तथा तथा पटावृतचक्षुष इवाल्पज्ञानं जीवस्य । एतदे|वाह-जीवं 'निर्मलरूपं अकलुषस्वभावमावृणोति 'एभिर्भेदैः' अभिधास्यमानः । मत्यादिव्युत्पत्तिस्तु व्याख्यानावसरे निरूपयिष्यते । इति गाथाद्वयार्थः॥ १२ ॥ सम्प्रति मतिज्ञानावरणं सप्रभेदमाह ACSCANCE For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy