________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राप्यन्त इति । तेभ्यः सकाशात्पुनः क्षीणमोहजिनाः सङ्ख्येयगुणाः, यतस्ते प्रतिपद्यमानका एकस्मिन् समयेऽष्टोत्तरशतप्रमाणा अपि लभ्यन्ते । एतच्चैवमाचार्येणाभिहितमुत्कृष्टपदापेक्षया, अन्यथा कदाचिद्विपर्ययोऽपि द्रष्टव्यः । स्तोकाः क्षीणमोहाः, बहवस्तु तेभ्य उपशान्तमोहा इति । तथा तेभ्यः क्षीणमोहेभ्यः सकाशात्सूक्ष्मानिवृत्तिनिवृत्तयः सूक्ष्मसंपरायानिवृत्तिबादरापूर्वकरणा विशेषाधिकाः । स्वस्थाने पुनरेते चिन्त्यमानास्त्रयोऽपि तुल्या इति ॥ ८४ ॥'इयर' इति अप्रमत्तप्रतियोगिनः प्रमत्ताः तेभ्यः सूक्ष्मादिभ्यः सकाशाद्योगिनः सयोगिकेवलिनः सङ्ख्यातगुणाः, तेषां कोटीपृथक्त्वेन लभ्यमानत्वात् । तेभ्योऽप्रमत्ताः सङ्ख्येयगुणाः, कोटीसहस्रपृथक्त्वेन प्राप्यमाणत्वात् । तेभ्योऽपि सङ्ग्येयगुणाः प्रमत्ताः। प्रमा|दभावो हि बहूनां बहुकालं च लभ्यते, विपर्ययेण त्वप्रमाद इति न यथोक्तसङ्ग्याव्याघातः । 'देस' इत्यादि, देशविरतसासादनमिश्राविरतिलक्षणाश्चत्वारो यथोत्तरमसंवेयगुणाः । अयोगिमिथ्यादृष्टिलक्षणौ च द्वौ यथोत्तरमनन्तगुणौ । तत्र प्रमत्तेभ्यो देशविरता असङ्ख्येयगुणाः तिरश्चामसङ्ख्यातानां देशविरतिभावात् । सासादनास्तु कदाचित्सर्वथैव न भवन्ति यदा तु भवन्ति तदा जघन्येनैको द्वौ वा, उत्कर्षतस्तु देशविरतेभ्योऽप्यसङ्खयेयगुणाः। तेभ्योऽपि मिश्रा असङ्ख्येयगुणाः, सासादनाद्धाया उत्कर्षतोऽपि षडावलिकामात्रतया स्तोकत्वात् , मिश्राद्धायास्त्वन्तर्मुहूर्तप्रमाणतया प्रभूतत्वात् । तेभ्योऽ-14 प्यसङ्ख्येयगुणा अविरतसम्यग्दृष्टयः, तेषां गतिचतुष्टयेऽपि प्रभूततया सर्वकालं संभवात् । तेभ्योऽप्ययोगिनो भवस्थाभवस्थभेदभिन्ना अनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्योऽप्यनन्तगुणा मिथ्यादृष्टयः साधारणवनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात् , तेषां च मिथ्यादृष्टित्वादिति ॥ ८५॥
For Private And Personal Use Only