SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पडशीतिप्रकरणम् ॥२०१॥ SACSCACANCE प्रमत्तेतरे इति बन्छः । इतरः प्रमत्तो गृह्यते, संख्यातगुणाः, यतः सयोगिकेवलिनां कोटीपृथक्त्वं प्राप्यते । टीकाद्वयोअप्रमत्तप्रमत्तगुणस्थानकवतां तु कोटीसहस्रपृथक्त्वं सामायिके कोटीशतपृथक्त्वं छेदोपस्थापनीये परम-पितम् ॥ प्रमत्तान्तमुहर्त लघु प्रमत्तान्तमुहूते वृहत्प्रमाणम्, इत्यतो यथोक्तं संख्यातगुणत्वं लभ्यते । ततो देशविर-IN तसासादन मिश्राऽविरतायोगिमिथ्यादृष्टयः क्रमेणासंख्याश्चत्वारो द्वयेऽनन्ताः । भावना त्वेवम्-प्रमत्त-13 यतिभ्योऽसंख्यातत्वाद्देशविरतितियग्मनुष्याणाम् । सासादनास्तु कदाचित्सर्वथैव न भवन्ति, यदा तु भवन्ति तदा जघन्यपदे एको वा द्वौ वा यावदुत्कृष्टतो गतिचतुष्टयसंभवित्वाद्देशविरतेभ्योऽसंख्येयगुणा भवन्ति । मिश्रा यदा भवन्ति तदोत्कृष्टतः सासादनेभ्योऽसंख्यातगुणाः, उत्कृष्टतोऽपि षडावलिकाप्रमाणत्वात्सासादनाहायाः, मिश्राद्धायास्त्वन्तमुंहूतेप्रमाणत्वादिति । मिश्रेभ्योऽसंख्येयगुणा अविरतसम्यग्दष्टया, चतुर्गतिषु सर्वकालभावित्वात्सेषामिति । तेभ्योऽनन्तगुणा अयोगिनः, अयोगिग्रहणेन चात्र सिद्धा अपि गृहीताः, यतोऽयोगिनो भवस्थाभवस्थभेदेन द्विविधा भवन्ति । तेभ्योऽनन्तगुणा मिथ्यादृष्टयः, पृथिव्यादिमाधारणमिथ्यादृष्टीनामनन्तत्वात् । इति गाथार्थः ॥८५॥ | इत्युक्तमल्पबहुत्वम् , तद्भणनाञ्चोक्तं यथाप्रतिज्ञातं समस्तमभिधेयजातम् । साम्प्रतं प्रकरणस्थादेयताख्यापनार्थ पकरणकारो गुणनिष्पन्नं खनाम सूचयन्नुपदेशमाह(मल०)उपशान्तजिना उपशान्तवीतरागाः स्तोकाः, यतस्ते प्रतिपद्यमानका उत्कर्षतोऽपि चतुष्पश्चाशत्प्रमाणा एव For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy