________________
Shri Mahavir Jain Aradhana Kendra
क० २
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषाः सामान्यखरूपविशेषखरूपनिर्दिष्टाः 'इमे' एते 'शृणुत' आकर्णयत यूयम् । इति गाथाद्वयार्थः ॥ ८ ॥ दृष्टान्तद्वारेणैतेषामेव सामान्यविशेषभेदानां खरूपं स्फुटीकुर्वन्नाह
( पारमा० ) पञ्चविधज्ञानावरणं, आर्षत्वादाकारलोपः । वरण इत्यस्य वाऽऽवरणार्थता । यथा गुरुवरणकमेव तम इत्यत्र । एवमग्रेऽप्यवगन्तव्यम् । नव भेदा दर्शनस्य । द्वौ वेदनीये । अष्टाविंशतिर्मोहे । चत्वारश्चायुषि भवन्ति ॥ ७ ॥ नामकर्मणि त्र्युत्तरं शतम् । द्वौ गोत्रे । अन्तरायके पञ्च । एतेषां भेदानां भवति विपाकः 'एषः' अनन्तरगाथया वक्ष्यमाणः । इति गाथाद्वयार्थः ॥ ८ ॥
प्रतिज्ञातमाह
पडपडिहारसिमज्जा-हडिचित्तकुलालभंडगारीणं । जह एएसिं भावा, कम्माणवि जाण तह चेवें ॥ ९ ॥
व्याख्या - पटः शाटकः, प्रतीहारो राजदौवारिकः, असिः खड्गम्, मद्यमासवः, हडिः षोढकः, चित्रं चित्रकर्म चित्रकरो वेति, कुलालः कुम्भकारः, भाण्डागारिको भाण्डागारे नियुक्तः । पटश्च प्रतीहारश्चासिश्च मद्यं च मद्यशब्दस्याकारोऽलाक्षणिकः प्राकृतत्वात्, हडिव चित्रं च कुलालच भाण्डागारी च इन्द्र: ( एषां द्वन्द्वस्तेषां ) । यथा एतेषां 'भावा' स्वरूपाणि गर्भार्थाः कर्मणां 'तथा' तेनैव प्रकारेण 'मन्तच्याः' ज्ञातव्याः स्वरूपभेदाः । इति गांथार्थः ॥ ९ ॥
१ व्याख्याकारेण तु–“कम्माणं तह मुणेयव्वा" इत्येतत्पाठानुसारेण व्याख्यातम् । २ 'भावा' इत्यपि कचित् । ३ 'खोरु (ड) कः' इत्यपि ॥
For Private And Personal Use Only