________________
Shri Mahavir Jain Aradhana Kendra
कर्मवि
पाकः
॥ ६ ॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तस्य । ततश्चैतत्प्रकर्षापकर्ष भावित्वादायुर्बन्धनिबन्धनानां महारम्भपरिग्रहत्वादीनाम्, तदुद्भवं चायुष्कमिति तस्य । तदुदयश्च गत्यादिनामोदयाविनाभावीत्यतो नाम्नः । ततोऽपि च नरकगत्यादिनामोदय सहभाव्येव गोत्रकर्मोदय इति गोत्रस्य । तस्माच्चोच्चनीचभेदभिन्नात्प्रायो दानादिलब्धिभावाभावौ तयोश्चान्तरायक्षयोदयावन्तरङ्गहेतू, इति तदनन्तरमन्तरायस्येति । उत्तरप्रकृतिप्रस्तावनायाह — उत्तरप्रकृतीः कीर्तयामि ॥ ६ ॥
ताश्वेमा:
पञ्चविह नाणवरणं, नव भेया दंसणस्स दो वेए । अट्ठावीसं मोहे, चत्तारि य आउए हुंति ॥ ७ ॥ नामेतिउत्तरस, दो गोए अंतराइए पंच। एएसिं भेयाणं, होई विवागो इमो सुणह ॥ ८ ॥
व्याख्या - 'पंचविधं' पश्चप्रकारं 'ज्ञानावरणं' कर्म ज्ञान स्वरूपतिरोधायकम् । 'नव भेदाः' नव प्रकाराः 'दर्शनस्य दर्शनावरणकर्मणः । द्वौ भेदौ 'वेदे' वेदनीयकर्मणि । अष्टाविंशतिभेदाः 'मोहे' मोहनीयकर्मणि । चत्वारश्च' 'आयुष्के' आयुष्ककर्मणि 'भवन्ति' जायन्ते 'भेदाः' विशेषाः । लुप्तानुखाराकारे प्रथमे दे पदे आर्षत्वात्प्राकृतत्वाद्वा । ज्ञानस्यावरणं ज्ञानावरणम् इति पाठान्तरं वा । एतावत्पाठे सुस्यमेव । इति प्रथम गाथार्थः ॥ ७ ॥ द्वितीयगाथा माह- 'नामे' नामकर्मणि 'श्युत्तरं शतं' व्यधिकं शतं भेदानामिति गम्यते । द्वौ भेदौ गोत्रे अन्तरायिके पञ्च भेदाः । एतेषां भेदानां सर्वेषामपि विशेषाणां भवन्ति' जायन्ते 'हु' पादपूरणे, 'भेदाः'
१ व्याख्याकारेण तु - "हुति हु भेया इमे सुणह" इत्येतत्पाठानुसारेण व्याख्यातम् । २ " तस्मिन्" इत्यपि ॥
For Private And Personal Use Only
टीकाद्वयोपेतः ॥
॥ ६॥