SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HME तदेवमुक्ता गुणस्थानकेषु लेश्याः । साम्प्रतं बन्धहेतयो वक्तुमवसरप्राप्ताः, ते च मूलभेदतश्चत्वार उत्तरभेदतश्च सप्त|पश्चाशत्, एतानुभयथाऽप्यभिधित्सुराहबंधस्स मिच्छअविरइकसायजोग त्ति हेयवोचउरो।पंच दुवालस पणुवीस पनरस कमेण भेया सिं॥७४॥ | (हारि०) व्याख्या-मिथ्यात्वाविरतिकषाययोगाः, 'इति' अमुना प्रकारेण बन्धस्य मूलहेतवश्चत्वारः। एषां च मिथ्यात्वादीनां 'क्रमेण' परिपाट्या इति संबन्धः । पञ्च-द्वादश-पञ्चविंशति-पञ्चदशसंख्या भेदा भवन्ति । एते च मीलिताः सप्तपञ्चाशद्वन्धहेतूत्तरभेदाः। इति गाथार्थः ॥ ७४ ॥ एतानेव विवृण्वन्नाह(मल०) 'बन्धस्य' सामर्थ्याज्ज्ञानावरणीयादिकर्मबन्धस्य मूलहेतवश्चत्वारः । के ते? इत्याह-मिथ्यात्वाविरतिकषाययोगाः। तत्र मिथ्यात्वं विपरीतावबोधस्वभावम् । अविरतिः सावधयोगेभ्यो निवृत्त्यभावः । कपाययोगाः प्रानिरूपि-| तस्वरूपाः। नन्वन्यत्र प्रमादोऽपि बन्धहेतुरभिधीयते, तदुक्तम्-"मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहेतवः" इति। स कथमिह नोक्तः, उच्यते, कार्मग्रन्थिकैर्मद्यविषयरूपस्य तस्याविरतावेवान्तर्भावो विवक्षितः कषायश्च पृथगेवोक्तः। वैक्रियारम्भादिसंभवी तु प्रमादो योगग्रहणेनैव गृहीत इत्यदोषः । अमीषामेवोत्तरभेदानाह-'पंच' इत्यादि । मिथ्यात्वस्योसरभेदाः पञ्च, अविरतेद्वादश, कषायाणां पञ्चविंशतिः, योगानां पञ्चदश ॥ ७४॥ एतानेव स्वरूपतः कथयन्नाह HARROR.. ॐ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy