SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kcbatrth.org षडशीतिप्रकरणम्॥१९॥ SIR-CHAR गुणस्थामकेष्वेव लेश्या अभिधित्सुराह टीकाद्वयोलेसा तिन्नि पमत्तं, तेऊपम्हा उ अप्पमत्ता । सुक्का जाव सजोगी, निरुद्धलेसो अजोगि ति॥७३॥17 | पेतम् ॥ | (हारि०) व्याख्या-आद्यास्तिस्रो लेश्याः प्रमत्तान्ताः प्रमत्तात्परतो न भवन्तीति प्रमत्तं यावत्पडपी-18 त्यर्थः । तथा तैजसीपद्मे त्वप्रमत्तान्तेऽप्रमत्तात्परतस्ते न भवतोऽप्रमत्ते अन्त्यास्तिस्रो लेश्या इत्यर्थः ।। ततोऽप्रमत्तादूर्ध्व 'शुक्ला' शुक्ललेश्यैकैवेत्यर्थो यावत् सयोगिगुणस्थानम् । तथा 'निरुद्धलेश्यः' अलेश्य इत्यर्थः, कोऽसौ ? इत्याह-'अयोगी' अयोगिकेवली । इतिशब्दो लेश्याद्वारसमास्यर्थे । इति गाथार्थः ॥७३॥ | इत्युक्ता लेश्या गुणस्थानकेषु ४ । साम्प्रतं बन्धहेतवः, ते च मूलभेदतश्चत्वार उत्तरभेदतः सप्तपश्चाशदिति तानुभयथाऽभिधित्सुराह (मल०) आद्यास्तिस्रो लेश्याः 'प्रमत्तान्ताः' प्रमत्तगुणस्थानकपर्यन्ता भवन्ति, प्रमत्तात्परतो न भवन्तीति यावत् । तेजःपद्मलेश्ये तु 'अप्रमत्तान्ते' मिथ्यादृष्टिगुणस्थानकात्प्रभृति यावदप्रमत्तगुणस्थानकं तावद्भवत इत्यर्थः । 'सुक्का जाव स-4 जोगी' इति मिथ्यादृष्टिगुणस्थानकात्प्रभृति यावत्सयोगिकेवलिगुणस्थानकं तावत् 'शुक्ला' शुक्ललेश्या भवति । 'निरुद्धलेसो अजोगि त्ति' अयोगी अयोगिकेवली 'निरुद्धलेश्यः' अपगतलेश्यो भवति । इतिर्वाक्यपरिसमाप्तौ । इह लेश्यानां प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि । ततो मन्दाध्यवसायस्थानापेक्षया शुक्ललेश्यादीनामपि | मिथ्यादृष्ट्यादौ कृष्णलेश्यादीनामपि प्रमत्तगुणस्थानकेऽपि संभवो न विरुध्यत इति ॥ ७३ ॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy