________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagarsuri Gyanmandir
शरीरी वैक्रियलब्धिसंपन्नो मनुष्यः पञ्चेन्द्रियतिर्यग्योनिको वा पर्याप्तबादरवायुकायिको वा वैक्रियं करोति तदौदारिक शरीरयोग एव वर्तमानः प्रदेशान् विक्षिप्य वैक्रियशरीरयोग्यान् पुद्गलानादाय यावद्वैक्रियशरीरपर्याप्त्या पर्याप्तिं न गच्छति तावद्वैक्रियेण मिश्रता व्यपदेशश्चौदारिकेण तस्य प्रधानत्वात् । एवमाहारकेणापि सह मिश्रता द्रष्टव्या । आहारयति च तेनैवेति तेनैव व्यपदेश इति । परित्यागकाले च वैक्रियस्याहारकस्य च यथाक्रमं वैक्रियमिश्रमाहारकमिश्रं च । उक्तं च प्रज्ञापनाटीकायामेवाहारकमधिकृत्य -यदाहारकशरीरी भूत्वा कृतकार्यः पुनरप्यौदारिकं गृह्णाति तदाऽऽहारकस्य
प्रधानत्वादौदारिकप्रवेशं प्रति व्यापारभावान्न परित्यज्यते, यावत्सर्वथैवाहारकं तावदादारिकेण सह मिश्रतेत्याहारकमिहै श्रता इत्याहारकमिश्रशरीरकायप्रयोग इति । तच्चेत्थम्-वैक्रियाहारकारम्भकाले औदारिकमिश्नं सूत्रेऽभिहितमपि नेह
प्रकरणेऽधिकृतं कार्मग्रन्थिकः, गुणविशेषप्रत्ययसमुत्थलब्धिविशेषकारणतया प्रारम्भकाले परित्यागकाले च वैक्रियस्याहा
रकस्य च प्राधान्य विवक्षया वैक्रियमिश्रस्याहारकमिश्रस्यैव चाभिधानात् तदभिप्रायस्य चेहानुसरणात् । तथा नैकेन्द्रिलायेषु 'सासाणो' इति भावप्रधानोऽयं निर्देशः सासादनभावः सूत्रे मतः, अन्यथा द्वीन्द्रियादीनामिवैकेन्द्रियाणामपि ज्ञानि
त्वमुच्येत न चोच्यते, किन्तु विशेषतः प्रतिषिध्यते । तथाहि-"एगिंदियाणं भंते ! किं नाणी अण्णाणी ? गोयमा! नो || नाणी नियमा अन्नाणी" इति । स चेत्थं सासादनभावप्रतिषेधः सूत्रे मतोऽपि केनचित्कारणेन कार्मग्रन्थिकर्नाभ्युपैयत,
इतीहापि नाधिक्रियते तदभिप्रायस्यैवेह प्रायोऽनुसरणादिति । 'नेहाहिगयं सुयमयंपि' इत्येतद्विभक्तिपरिणामेन प्रतिपाद संबन्धनीयं तथैव च संबन्धितमिति ॥७२॥
C
For Private And Personal Use Only