________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम्
॥१८८॥
गाथेयम्-"इय जियठाणाईयं, मग्गणठाणेसु मग्गियमसेसं । संपइ गुणठाणेसुं, जीवहाणाइयं वोच्छं॥१॥" टीकाद्वयोइतः प्रस्तुतगाथोच्यते
पेतम् ॥ (मल०) स्तोकाः संज्ञिनो जीवाः, देवनारकसमनस्कपञ्चेन्द्रियतिर्यङ्नराणामेव संज्ञित्वात् । तेभ्योऽसंज्ञिनः संज्ञि-13 व्यतिरिक्ता अनन्तगुणाः, वनस्पतिकायजीवानामनन्तत्वात् । तथा स्तोका अनाहारकाः, विग्रहगत्यापन्नसमुद्धातगतकेवलिभवस्थायोगिकेवलिसिद्धानामेवानाहारकत्वात् । तेभ्योऽसंख्यातगुणाः, साहारा आहारकजीवाः। ननु च सिद्धेभ्योनन्तगुणाः संसारिजीवाः ते च प्राय आहारकाः, तत्कथमसंख्यातगुणा अनाहारकेभ्य आहारकाः? इति, नैष दोषः, यतः प्रतिसमयमेकैकस्य निगोदस्यासंख्येयभागप्रमाणा विग्रहगत्यापन्ना जीवा लभ्यन्ते ते चानाहारकाः, तत आहारकजीवानामनाहारकजीवापेक्षयाऽसंख्यातगुणत्वमेवेति ॥ १४ ॥
उक्तं गत्यादिषु मार्गणास्थानेषु स्वस्थानापेक्षयाऽल्पबहुत्वम् । इदानी गुणस्थानकेषु जीवस्थानानि चिन्तयन्नाहमिच्छे सवे छ अपज सन्निपज्जत्तगो य सासाणे । सम्मे दुविहो सन्नी, सेसेसुं सन्निपज्जत्तो॥६५॥ (हारि०) व्याख्या-मिथ्यादृष्टौ सर्वजीवस्थानानि भवन्तीति गम्यम् । तथा षडपर्याप्तकजीवस्थानानि सूक्ष्मरहितानि संज्ञी पर्याप्तकश्चेति सप्तमं जीवस्थानकम् , क ? इत्याह-सासादने । तथा 'सम्मे' इति अ-18|॥२॥ विरतसम्यग्दृष्टिगुणस्थानके, किम् ? इत्याह-'विविधः' पर्यासापर्याप्तलक्षण: संज्ञीति जीवस्थानकवयम् ।। तथा 'शेषेषु' मिश्रदेशविरत्यादिष्वेकादशगुणस्थानकेषुसंज्ञी पर्याप्त इत्येक जीवस्थानकम् । इति गाथार्थः॥६५॥
R-RIRIKA
For Private And Personal Use Only