SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रच्युतेः, ततः प्रच्यवमानानां च सासादनत्वात् । तेभ्योऽपि चौपशमिकसम्यग्दृष्टिभ्यः सकाशान्मिश्राः संख्यातगुणाः” तेभ्योऽपि क्षायोपशमिकसम्यग्दृष्टयोऽसंख्यातगुणाः तेभ्योऽपि क्षायिकसम्यग्दृष्टयोऽनन्तगुणाः, क्षायिकसम्यक्त्ववतां सिद्धानामानन्त्यात् । तेभ्योऽपि मिथ्यादृष्टयोऽनन्तगुणाः, सिद्धेभ्योऽपि वनस्पतिजीवानामनन्तत्वात् तेषां च मिथ्यादृष्टित्वात् । इति ॥ ६३ ॥ सन्नी थोवा तत्तो, अनंतगुणिया असन्निणो होंति । थोवाणाहारजिया, तदसंखगुणा सआहारा ॥ ६४ ॥ ( हारि०) व्याख्या - संज्ञिनः स्तोकाः, ततोऽनन्तगुणिताः 'असंज्ञिनः' मनोविज्ञान विकलाः पृथिवीकायिकादिसर्वजीवा भवन्तीति, क्रियापदं सर्वाल्पबहुत्वपदेषु योज्यम् । इति संज्ञिष्वल्पबहुत्वमुक्तम् । तथा स्तोका आहारकापेक्षयाऽनन्ता अप्यनाहारकाः । एषां चानन्तत्वं प्रतिसमयोद्धृतनिगोदा संख्येया भागप्रमाणानन्तकायिकजीवानामनन्तानां विग्रहगत्यापन्नानां तथा सिद्धानां चानन्तानां सद्भावात् । तेभ्योऽसंख्यातगुणास्तदसंख्यातगुणा भवन्ति, के ? इत्याह-सहाहारेण वर्तन्त इति साहारकाः । यतोऽनाहारका विग्रहगत्यापन्ना एकैकनिगोदासंख्येय भागवर्तिन उक्ताः, शेषाञ्चाहारकाः । अतोऽनाहारकेभ्य आहारका असंख्येयगुणा एव । इति गाथार्थः ॥ ६४ ॥ इत्युक्तमल्पबहुत्वम्, तदभिधानाच भणितं मार्गणास्थानगताभिधेयपदषट्कम् । अधुना गुणस्थानकेषु जीवस्थानाद्यभिधेयपददशकं मार्गयितुकामः प्रथमतस्तेष्वेव जीवस्थानान्याह, अत्रार्थेऽन्यकर्तृकी संबन्ध For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy