________________
Shri Mahavir Jain Aradhana Kendra
षडशीतिप्रकरणम्॥ १८७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तथा सर्वेऽपि सूक्ष्मबादरभेदभिन्ना निगोदजीवा अनन्तकायिकसत्त्वाः, तथा सर्वे वनस्पतयः प्रत्येकानन्तवनस्पतिजीवाः, 'काल' इति सर्वेऽतीतानागताः समयाः, सर्वे पुद्गलाः समस्तपुद्गलास्तिकायगताः परमाणवः, तथा सर्व समस्तमलोकाकाशम्, अयं च सर्वशब्दः प्रत्येकं लिङ्गवचनपरिणामेन संबन्धनीयः, स च तथैव संबन्धितः, एते प्रदर्शितस्वरूपाः षडपि प्रक्षिप्यन्त इति प्रक्षेपाः, 'कर्मणि घञ्' प्रक्षेपणीया राशयः पूर्वोक्तराशौ प्रक्षिप्यन्ते, ततः पुनरप्येतावत्प्रमाणस्य राशेः पूर्वोक्तेनैव क्रमेण वारत्रयं वर्गो विधीयते, ततः केवलज्ञानदर्शनपर्यायाः सर्वेऽपि तत्र प्रक्षिप्यन्ते, तत उत्कृटमनन्तानन्तकं भवति । सूत्राभिप्रायतश्चैवमप्युत्कृष्टमनन्तानन्तकं न भवतीति । प्रकृतमिदानीमनुस्त्रियते । तत्र यथोकसंख्येभ्योऽभव्येभ्यः सकाशाद्भव्या अनन्तगुणाः । किंरूपास्ते ? इत्याह- 'निर्वाणगमनार्हाः' निर्वृतिगमनयोग्याः ॥ ६२ ॥ | सासणउवसमिय मिस्सवेय गक्ख इगमिच्छदिट्ठीओ। थोवा दो संखगुणा, असंखगुणिया अणंता दो ॥ ६३ ॥
( हारि ० ) व्याख्या - सासादनोपशमिकमिश्रवेदकक्षायिक मिध्यादृष्टय इति द्वन्द्वः । तत्र स्तोकाः सासादनाः, ततो द्वावौपशमिकमिश्रदृष्टी संख्यातगुणौ, ततोऽसंख्यातगुणिता वेदकाः, क्षायोपशमिकसम्यग्दृष्टय इत्यर्थः, एतत्सम्यक्त्ववतां देवादीनामसंख्यगुणत्वात् । ततोऽनन्तगुणौ दौ क्षायिक मिथ्यादृष्टी । तत्र क्षायिकेष्वनन्तत्वं सिद्धापेक्षम् मिथ्यादृष्टिपदे च भावितार्थमेव । इति गाथार्थः ॥ ६३ ॥
इति सम्यक्त्वे सप्रतिपक्षेऽल्पबहुत्वमुक्तम् । तथा
( मल० ) स्तोकाः सासादन सम्यग्दृष्टयः, तेभ्यः संख्यातगुणा औपशमिकसम्यग्दृष्टयः, केषांचिदेवौपशमिकसम्यक्त्वतः
For Private And Personal Use Only
टीकाद्वयोपेतम् ॥
॥ ७१ ॥