________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विधा, जघन्य मध्यममुत्कृष्टं च । तत्रोत्कृष्टासंख्यातासंख्यातकराशावेकरूपे प्रक्षिप्ते सति जघन्यं परीतानन्तकं भवति । ततः परं यान्यनन्तकरूपसंख्यास्थानानि तानि मध्यमपरीतानन्तकानि द्रष्टव्यानि, यावदुत्कृष्टं परीतानन्तकं न भवति । तच्चैवम्-जघन्यपरीतानन्तकराशौ यावन्ति रूपाणि तावत्संख्याकानां जघन्यपरीतानन्तकराशीनां परस्परमभ्यासे कृते सति यावान् राशिर्भवति, तावानेकरूपहीनः सन्नुत्कृष्टं परीतानन्तकं भवति । रूपे च प्रक्षिप्ते सति जघन्य युक्तानन्तकं भवति । एतावत्प्रमाणा अभव्यजीवाः । तथा च सूत्रं जघन्ययुक्तानन्तकसंख्याभिधानानन्तरम्-"अभवसिद्धियावि तत्तिया चेव" इति । इह तावदेतावतैव पर्याप्तम् । अतः परं तु विनेयजनानुग्रहाय मध्यमयुक्तानन्तकादीन्यपि संख्यास्थानान्युपदय॑न्ते । तत्र जघन्ययुक्तानन्तकात्पराणि यान्यनन्तसंख्यास्थानानि तानि मध्यमयुक्तानन्तकस्थानानि द्रष्ट| व्यानि, यावदुत्कृष्टं युक्तानन्तकं न भवति । तच्चैवमवगन्तव्यम्-जघन्ययुक्तानन्तकराशौ यावन्ति रूपाणि तावत्प्रमाणानामेव जघन्ययुक्तानन्तकराशीनामन्योन्यमभ्यासे कृते सति यावान् राशिः संपद्यते तावानेकरूपोनः सन्नुत्कृष्टं युक्तानन्तकं भवति । रूपे च प्रक्षिप्ते सति जघन्यमनन्तानन्तकं भवति । ततः परं यान्यनन्तसंख्यास्थानानि तानि साण्यपिमध्यमानन्तानन्तकरूपाणि द्रष्टव्यानि । उत्कृष्टं त्वनन्तानन्तकं नास्त्येव । तथा च सूत्रम्-“उक्कोसयं अणताणतयं नत्थि" इति । अन्ये पुनराहुः-जघन्यानन्तानन्तकराशेस्तावतैव राशिना गुणनस्वरूपो वर्गः क्रियते, ततस्तस्य वर्गितराशेः पुन|वर्गस्तस्यापि भूयो वर्गः । एवं वारत्रयं वर्गे कृते सति इमे षटू प्रक्षेपाः प्रक्षिप्यन्ते-"सिद्धा निगोयजीवा, वणस्सईकाल|पुग्गला चेव । सबमलोगागासं,छप्पेएणतपक्खेवा ॥१॥" इत्यस्य व्याख्या सर्व एव सिद्धा अपगतसकलकमेकलङ्काः।
SARX-LARKI CROR
क. ३२
For Private And Personal Use Only