SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीकाद्वयो पडशीतिप्रकरणम् पेतम् ॥ ॥१८६॥ तिरिक्ताः पृथिव्यप्तेजोवायुवनस्पतित्रसाः प्रत्येकशरीरिणः । 'ठिइबंधज्झवसाया' इति स्थितिवन्धस्य कारणभूता अध्यवसायाः कषायोदयरूपाः । “ठिइअणुभार्ग कसायओ कुणई" इतिवचनात् । स्थितिबन्धाध्यवसायाः, तेऽप्यसंख्याता एव । तथाहि-ज्ञानावरणीयस्य कर्मणस्तावज्जघन्यस्थितिबन्धोऽन्तमुहूर्तप्रमाणः । मध्यमः स एवैकसमयाधिको द्विसमयाधिक इत्यादिरूपः । उत्कृष्टस्तु त्रिंशत्सागरोपमकोटीकोटीप्रमाणः । एषां च स्थितिवन्धानां निर्वतका अध्यवसायाः प्रत्येकमसंख्येयलोकाकाशप्रमाणाः । “ठिइबंधे ठिइबंधे अज्झवसाणाणसंखया लोगा।" इतिवचनात । एवं च | सत्येकस्मिन्नपि ज्ञानावरणीये कर्मण्यसंख्याताः स्थितिबन्धाध्यवसायाः प्राप्यन्ते । किं पुनः समस्तेषु कर्मसु ? इति । अनु||भागा ज्ञानावरणीयादिकर्मणां दलिकेषु जघन्यमध्यमादिभेदभिन्ना रसविशेषाः, तेषां निष्पादकानि यान्यध्यवसायस्थानानि तान्यनुभागधन्धाध्यवसायस्थानानि, पदैकदेशे पदसमुदायोपचारात् । तत्रानुभागबन्धाध्यवसायस्थानान्यनुभागशब्देनोक्तानि तानि चासंख्येयलोकाकाशप्रदेशप्रमाणानि । 'जोगछेयपलिभागों' इति । योगो मनोवाकायनिमित्तं वीर्यम् तस्य प्रज्ञाच्छेदनकच्छेदेन प्रतिविशिष्टा निर्विभागा भागा योगच्छेदप्रतिभागाः, ते च जघन्ययोगस्थानादारभ्योत्कृष्टयोगस्थानं यावत्प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमाणा भवन्ति । 'दोण्ह य समाणसमया' इति । यो समयोरुत्सर्पिण्यवसपिणीरूपयोः समथाः परमनिरुद्धाः कालविशेषाः, तेऽप्यसंख्याता एव । एतेषां च दशानां राशीनां प्रक्षेपे सति पुनः समस्तस्यापि ससे पूर्ववत्रीन वारान् वर्गो विधीयते । तत एतावत्प्रमाणो राशिरेकरूपोन उत्कृष्टमसंख्यातासंख्यातकं भवति । उक्तमसंख्यासकम् , इदानीमनन्तकमुच्यते । तदपि त्रिधा, परीतानन्तक युक्तानन्तकं अनन्तानन्तकं च। पुनरप्येकैकं ॥७०॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy