SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युक्तासंख्यातक न भवति। तच्चैवम् यानिजघन्ययुक्तासंख्यातकराशौ रूपाणि तान्येकैकशः पृथक् पृथक् संस्थाप्य तत एकैकस्मिन् रूपे जघन्ययुक्तासंख्यातकप्रमाणो राशिर्व्यवस्थाप्यते। तेषां चराशीनां पूर्वोक्तप्रकारेण परस्परमभ्यासे सति यावान् राशिःसंपद्यते, तावान् एकरूपोनः सन्नुत्कृष्टंयुक्तासंख्यातकं भवति। रूपेच प्रक्षिप्ते सति जघन्यमसंख्यातासंख्यातकं भवति । अन्ये पुनराहुः-जघन्ययुक्तासंख्यातकराशौ जघन्ययुक्तासंख्यातकराशिना वर्गिते सति यावान् राशिः संभवति यथा चतुकेनचतुष्के वर्गिते षोडश, तावत्प्रमाणो राशिरेकरूपोनः सन्नुत्कृष्टं युक्तासंख्यातकं भवति । रूपे च प्रक्षिप्तेसति जघन्यम संख्यातासंख्यातकं भवति । ततः परं यान्यसंख्यातसंख्यास्थानानि तानि सर्वाण्यपि मध्यमासंख्यातासंख्यातकस्थानानि, यावदुत्कृष्टमसंख्यातासंख्यातकं न भवति । तत्पुनः कियत् ? इति चेद्, उच्यते, जघन्यासंख्यातासंख्यातकराशिरूपाणि पृथक् पृथग् एकैकशो व्यवस्थाप्य तत एकैकस्मिन् रूपे जघन्यासंख्यातासंख्यातकराशिर्व्यवस्थाप्यते । तेषां च राशीनां परस्परमभ्यासे कृते सति यावान् राशिः संभवति तावानेकरूपहीनः सन्नुत्कृष्टमसंख्यातासंख्यातकं भवति । अन्ये पुनरेवमाहुः-जघन्यासंख्यातासंख्यातकराशेर्वर्गो विधीयते । वर्गितस्यापि च तस्य राशेः पुनरन्यो वर्गो विधीयते । ततः पुनरपि तस्य वर्गितवर्गितस्यान्यो वर्गो विधीयते । इत्येवं त्रीन् वारान् वर्गे कृते सति इमान् दशासंख्यातकप्रक्षेपान प्रक्षिपेत् । -"लोगागासपएसा, धम्माधम्मेगजीवदेसा य । दबहिया निगोया, पत्तेया चेव बोधवा ॥१॥ ठिइबंधज्झव-| साया, अणुभागा जोगछेयपलिभागा । दोण्ह य समाणसमया, असंखपक्खेव दसउ त्ति ॥२॥" "दबढ़िया निगोया" इति द्रव्यस्थिता निगोदाः सूक्ष्माणां च बादराणां चानन्तकायिकजीवानां शरीराणि । 'पत्तेया' इति अनन्तकायिकन्य For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy