________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साम्प्रतं गुणस्थानकेषु जीवस्थानकसमर्थनां सूचयन् योगादिसंबन्धं दर्शयंश्च तेषु तानेवाह(मल.) मिथ्यादृष्टिगुणस्थानके सर्वाण्यपर्याप्तसूक्ष्मैकेन्द्रियादीनि पर्याप्तसंज्ञिपञ्चेन्द्रियपर्यन्तानि जीवस्थानानि भवन्ति, मिथ्यात्वस्य सर्वेष्वप्येतेषु संभवात् । तथा सूक्ष्मैकेन्द्रियवर्जिताः शेषाः षटू अपर्याप्तकाः संज्ञी पर्याप्तकश्चेति सप्त जीवस्थानानि सासादनसम्यग्दृष्टिगुणस्थानके भवन्ति । अपर्याप्तकाचेह करणापर्याप्तका द्रष्टव्याः न तु लब्ध्यपर्याप्तकाः,8 | तेषु मध्ये सासादनसम्यक्त्वसहितस्योत्पादाभावात् । 'सम्मे दुविहो सन्नी' इति अविरतसम्यग्दृष्टिगुणस्थानके 'द्विविधः' | पर्याप्तापर्याप्तरूपतया द्विप्रकारः संज्ञी ज्ञातव्यः । इहाप्यपर्याप्तकः करणापेक्षया द्रष्टव्यः न तु लब्ध्यपेक्षया, लब्ध्यपर्यातकमध्येऽविरतसम्यग्दृष्टेरुत्पादाभावात् । 'शेषेषु' मिश्रदेशविरत्यादिषु गुणस्थानकेषु पर्याप्तसंज्ञिपञ्चेन्द्रियलक्षणमेकमेव जीवस्थानकं द्रष्टव्यं न शेषाणि, तेषां मिश्रभाक्देशसर्वविरतिप्रतिपत्त्यभावात् । न च पूर्वप्रतिपन्न मिश्रभावोऽन्येषु जीवस्थानकेषु लभ्यते-"न सम्ममिच्छो कुणइ कालं" इतिवचनात् ॥६५॥
उपसंहारमाहइय जियठाणा गुणठाणगेसु जोगाइ वोच्छमेत्ताहे। जोगाहारदुगुणा, मिच्छे सासण अविरए य ॥६६॥ | (हारि०) व्याख्या-इति जीवस्थानानि गुणस्थानकेषूक्तानि । इति शेषो दृश्यः ॥१॥ इतो योगादि वक्ष्ये, इति गाथार्डेन संबन्धोऽभिहितः। साम्प्रतं संबन्धितमेवार्थमाह-योगा उक्तखरूपा भवन्ति । किमशेषा अपि न ? इत्याह-आहारकदिकोनास्त्रयोदशेत्यर्थः, क ? इत्याह-'मिच्छे' इति मिथ्यादृष्टौ सासा
For Private And Personal Use Only