SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (हारि०) व्याख्या-सूचकत्वात्सूत्रस्य सूक्ष्मसंपरायपरिहारविशुद्धिकयथाख्यातच्छेदोपस्थापनीयसामायिकदेशयत्ययताः क्रमेणेति प्रक्रमः। प्रथमाः स्तोकाः। ततः संख्येयगुणाश्चत्वारः । ततो देशयतयो गुणशब्दस्य प्रत्येकमभिसंबन्धादसंख्यगुणाः असंख्यगुणत्वाद्देशविरततिरश्चाम् । ततोऽनन्तगुणा अयता, आद्यगु-12 णस्थानकचतुष्टयवर्त्यसंयमिनः । भावना पूर्ववत् । इति गाथार्थः॥५९॥ ' इति संयमेष्वल्पबहुत्वमुक्तम् । तथा (मला) सर्वस्तोकाः सूक्ष्मसंपरायसंयमिनः, शतपृथक्त्वमात्रसंभवात् । तेभ्यः सक्येयगुणाः परिहारविशुद्धिकाः, सहस्रपृथक्त्वसंभवात् । तेभ्योऽपि सङ्ग्वेयगुणा यथाख्यातचारित्रिणः, कोटीपृथक्त्वेन प्राप्यमाणत्वात् । तेभ्योऽपिच च्छेदोपस्थापनचारित्रिणः सक्येयगुणाः, कोटीशतपृथक्त्वेन लभ्यमानत्वात् । तेभ्योऽपि सामायिकसंयमिनः सोयगणाः कोटीसहस्रपृथक्त्वेन प्राप्यमाणत्वात् । तेभ्योऽपि देशयतयोऽसङ्ख्यातगुणाः, असङ्ख्यातानां तिरश्चां देशविरतिसंभवात् । तेभ्योऽप्ययताः संयमहीना आद्यगुणस्थानकचतुष्टयवर्तिनोऽनन्तगुणाः, मिथ्यादृशामनन्तानन्तत्वात् । 'संखेजगुणा चउरो' इति चत्वारः परिहारविशुद्धिकयथाख्यातच्छेदोपस्थापनासामायिकवन्तः क्रमेण सङ्ख्येयगुणाः । शेषाक्षरगमनिका सुज्ञाना । इति ॥ ५९॥ ४ इय ओहिचक्खुकेवलअचक्खुदंसी कमेण विन्नेया।थोवा अस्संखगुणा, अणंतगुणिया अणंतगुणा ॥६॥ (हारि०) व्याख्या-'इति' अमुनोल्लेखेन विज्ञेया इति संबन्धः, पदावयवे पदसमुदायोपचारात् । अव CA-9115- 15 For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy