SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षडशीतिप्रकरणम् टीकाद्वयोपेतम् ॥ ॥१८॥ नान्तरीयकत्वात् । तथा च सूत्रम्-"जत्थ मइनाणं तत्थ सुयनार्ण, जत्थ सुयनाणं तत्थ मइनाणं । दोवि एयाई। अन्नोन्नमणुगयाई ।" इति ॥ ५७ ॥ विभंगिणो असंखा, केवलनाणी तओ अणंतगुणा। तत्तोऽणंतगुणा दो, मइसुयअन्नाणिणो तुल्ला ॥५०॥ (हारि०) व्याख्या-वक्ष्यमाणतच्छन्दस्यात्रापि योगात्ततः पूर्वगाथोक्तमतिश्रुतज्ञानिभ्यः सकाशादिभशिनोऽसंख्याः, मिथ्यादृष्टिमुरादीनामसंख्यगुणत्वात् । केवलज्ञानिनस्ततोऽनन्तगुणाः, सिद्धानामानन्त्यात् । ततोऽनन्तगुणो दौ मतिश्रुताज्ञानिनौ, एतदज्ञानदयवतां हि मिथ्यादृष्यादीनामनन्तगुणत्वात् । 'तुल्यौ' समौ खस्थान इति शेषः। इति गाथाथैः॥५८॥ इति ज्ञानेष्वल्पबहुत्वमुक्तम् । तथा(मल०) तेभ्यश्च मतिज्ञानिश्रुतज्ञानिभ्यः सकाशाद्विभङ्गज्ञानिनोऽसङ्ख्यातगुणाः, मिथ्यादृष्टिसुरादीनां विभङ्गज्ञानवतां तेभ्योऽसङ्ख्यातगुणत्वात् । ततोऽपि च विभङ्गज्ञानिभ्यः सकाशात्केवलिनोऽनन्तगुणाः, सिद्धानां तेभ्योऽनन्तगुणत्वात्, तेषां च केवलज्ञानयुक्तत्वात् । तेभ्योऽपि च केवलज्ञानिभ्यः सकाशादनन्तगुणाः मत्यज्ञानिश्रुताज्ञानिनः, सिद्धेभ्यो वनस्पतिकायिकानामनन्तगुणत्वात्, तेषां च मिथ्यादृष्टितया मतिश्रुताज्ञानयुक्तत्वात् । एतौ द्वावपि मत्यज्ञानिश्रुताज्ञानिनौ स्वस्थाने चिन्त्यमानौ तुल्यौ, मत्यज्ञानश्रुताज्ञानयोः परस्परमविनाभावित्वात् ॥ ५८॥ सुहमपरिहारअहखायछेयसामइयदेसजइअजया।थोवा संखेज्जगुणा, चउरो अस्संखणंतगुणा ॥ ५९॥ ALCHARACA-CX ॥६५॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy