SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एव च हेतोस्तिर्यग्योनिपञ्चेन्द्रियेषु द्वीन्द्रियादितुल्यतया सूत्रेऽभिहितेष्वपि तत्रापि नरनिरयदेवप्रक्षेपेऽपि पश्चेन्द्रियाश्चतुरिन्द्रियादिभ्यः स्तोका एव द्रष्टव्याः। तदुक्तम्-“पंचेंदिया य थोवा, विवजएण वियला विसेसहिया" इति द्वीन्द्रि- येभ्योऽपि चैकेन्द्रिया अनन्तगुणाः, वनस्पतिकायजीवराशेरनन्तानन्तत्वात् । 'तस तेउ' इत्यादि सोत्तरगाथार्द्धम् । त्रसा द्वीन्द्रियादयः पूर्वनिर्दिष्टसंख्याकाः, ते तेजस्कायिकादिभ्यः सकाशात्स्तोकाः, तेभ्यः पुनस्तेजस्कायिका असंख्यातगुणाः, तेषां सूक्ष्मवादरभेदभिन्नानामसंख्येयलोकाकाशप्रदेशराशिप्रमाणत्वात् । तेभ्यः पृथ्वीकायिका विशेषाधिकाः, तेभ्योऽपका-है। यिका विशेषाधिकाः, तेभ्योऽपि वायुकायिका विशेषाधिकाः । यद्यपि चैतेषामपि पृथ्वीकायिकादीनामसंख्येयलोकाकाशप्रदेशराशिप्रमाणतया सूत्रेऽविशेषेण निर्देशः कृतः । तथा चोक्तम्-"जहा पुढविकाइयाणं एवं आउकाइयाणं पि" इत्यादि । तथाऽपि लोकानामसंख्यातत्वस्यानेकभेदत्वादिहैव विशेषाधिकत्वाभिधानेऽपि न कश्चिद्दोषः । उक्तं च"थोवा य तसा तत्तो, तेउ असंखा तओ विसेसहिया । कमसो भूदगवाऊ, अकायहरिया अणंतगुणा ॥१॥" 'अकाय' इति सिद्धाः, तथा तेभ्यो वायुकायिकेभ्यो हरितकाया अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिप्रमाणत्वात् । 'मणवयण' इत्यादि । मनोयोगिनः स्तोकाः, संज्ञिपञ्चेन्द्रियाणामेव मनोयोगित्वात् । तेभ्यश्च वाग्योगिनोऽसङ्ग्यात-टू गुणाः, द्वीन्द्रियादीनामप्यसंज्ञितिर्यपश्चेन्द्रियपर्यन्तानां वाग्योगिनां मनोयोगिभ्योऽसङ्ख्यातगुणानां तत्र प्रक्षेपात् ।। वाग्योगिभ्योऽपि काययोगिनोऽनन्तगुणाः, वनस्पतिकायिकानामप्यनन्तानन्तानां तत्र प्रक्षेपात् ॥ ५४॥ ५५ ॥ पुरिसेहिंतो इत्थी, संखेजगुणा नपुंसणंतगुणा। माणी कोही मायी, लोही कमसो विसेसहिया ॥५६॥ ACAMARNEKCICIA For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy