SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यता एकप्रादेशिक्यः श्रेणयोऽङ्गुलमात्रक्षेत्रप्रदेशराशिसंबन्धितृतीयवर्गमूलघनप्रमाणास्तासां यावान् प्रदेशराशिस्तावत्प्र|माणाः । अतः सकलभवनपत्यादिसमुदायापेक्षया चिन्त्यमाना देवा नारकेभ्योऽसत्यातगुणा एव । तथा चोक्तम्“थोवा नरा नरेहि य, असंखगुणिया हवंति नेरइया । तत्तो सुरासुरेहि य, सिद्धाणंता तओ तिरिया ॥१॥” इति । यदुक्तं तृतीयवर्गमूलधनप्रमाणा इति, तस्येयं गणितभावना-अङ्गुलमात्रक्षेत्रप्रदेशराशेरसत्कल्पनया षट्पञ्चाशदधिकशतद्वयप्रमाणस्य प्रथमं वर्गमूलं पोडश, द्वितीयं चत्वारि, तृतीयं द्वे, तच्च तृतीयं वर्गमूलं द्वितीयेन वर्गमूलेन चतुष्टयलक्षणेन गुण्यते ततोऽष्टौ भवन्ति, एष तृतीयवर्गमूलस्य घनः । अङ्कस्थापना-२५६/ अस्य घनः ८। एवं प्रागपि वर्गमूलघनभावना द्रष्टव्या । तेभ्योऽपि च देवेभ्यस्तियश्चोऽनन्तगुणाः, तत्रानन्तसंख्योपेतस्य वनस्पतिकायस्य सद्भावात्।५३। - तदेवं गतिष्वल्पबहुत्वमभिधाय, साम्प्रतमिन्द्रियद्वारे २ तदभिधित्सुराहपणचउतिदुएगिंदी, थोवा तिन्नि अहिया अणंतगुणा । तसतेउपुढविजलवाउहरियकाया पुण कमेणं॥ थोवा असंखगुणिया, तिन्नि विसेसाहिया अणंतगुणा।मणवंयणकायजोगी,थोवा संखगुणि अणंतगुणा॥ | (हारि०) व्याख्या-सूचकत्वात्सूत्रस्य पञ्चचतुस्त्रिव्येकेन्द्रियाः, अत्र द्वन्द्वगर्भो बहुव्रीहिः । तत्र पञ्चे-18 |न्द्रियाः स्तोकाः, तेभ्यश्चतुरिन्द्रिया अधिकाः, तेभ्यस्त्रीन्द्रिया अधिकाः, ततो द्वीन्द्रिया अधिकाः, तेभ्य एकेन्द्रिया अनन्तगुणाः । अनन्तत्वभावना प्राग्वत् । इतीन्द्रियेष्वल्पबहुत्वमुक्तम् । तथा नसतेजःपृथिवीजलवायुहरितकायाः, इह बन्दगर्भस्तत्पुरुषः । पुनः क्रमेणाल्पबहुत्वं वक्ष्यमाणगाथया मन्तव्यम् । इतिगाथार्थः ॥५४॥ For Private And Personal Use Only
SR No.020557
Book TitlePrachin Karmgranth Satik
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha
PublisherJain Atmanand Sabha
Publication Year1917
Total Pages476
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy